________________
स्थानांगसूत्र
२२९
અપ્રત્યાખ્યાનીય કષાયની સ્થિતિ એક વરસની છે... તિર્યગુ ગતિમાં ગમન કરાવે છે. પ્રત્યાખ્યાનીય કષાયની સ્થિતિ ચાર માસની છે... મનુષ્ય ગતિમાં ગમન કરાવે છે. સંજવલન કષાયની સ્થિતિ પંદર દિવસની છે – દેવગતિમાં ગમન કરાવે છે. (૧૧૦માં कर्मसाम्यादाह
प्रकृतिस्थित्यनुभावप्रदेशभेदो बन्धो बन्धनोदीरणोपक्रमणाविपरिणामनाभेद उपक्रमः प्रकृतिस्थित्यनुभावप्रदेशविषयमल्पबहुत्वं संक्रमनिधत्तनिकाचितान्यपि ॥१११॥
प्रकृतीति, सकषायजीवस्य कर्मयोग्यपुद्गलग्रहणं बन्धः, तत्र कर्मप्रकृतीनां ज्ञानावरणीयाद्यष्टभेदानामविशेषितस्य कर्मणो वा बन्धः प्रकृतिबन्धः । तासामेव जघन्यादिभेदेन स्थितेनिवर्त्तनं स्थितिबन्धः, अनुभावो विपाकः, तीव्रादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिणामानां बन्धः प्रदेशबन्धः परिमितपरिणामगुडादिमोदकबन्धवदिति । एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः, यथा किल मोदको नागरादिद्रव्यबद्धः सन् कोऽपि वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानं काचिद्दर्शनमावृणोति काचित्सुखदुःखादिवेदनमुत्पादयति, तथा तस्यैव मोदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिरेवं कर्मणोऽपि तद्भावेन नियतकालावस्थानं स्थितिबन्धः, यथा मोदकस्य स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भवत्येवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभावबन्धः, तस्यैव मोदकस्य यथा नागरादिद्रव्याणां परिमाणवत्त्वमेवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेष उपक्रमो योऽन्यत्र करणमिति रूढो बन्धादीनामारम्भो वोपक्रमः । तत्र कर्मपुद्गलानां जीवप्रदेशानाञ्च परस्परं सम्बन्धनं बन्धनं तस्योपक्रमः, इदञ्च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपमम् । असंकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं तदेवोपक्रमो बन्धनोपक्रमः, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमत्वात् । एवमप्राप्तकालफलानां कर्मणामुदयप्रवेशनमुदीरणा, उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमना कर्मणां विविधैः प्रकारैः सत्तोदयक्षयक्षयोपशमोद्वर्तनापवर्तनादिभिः परिणमनं गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इयं बन्धनादिषु तदन्येष्वप्युदयादिष्वप्यस्तीति सामान्यरूपत्वादिह भेदेनोक्ता । बन्धनोपक्रमश्चतुर्धा प्रकृत्यादिभिः, तत्र प्रकृतिबन्धनोपक्रमो जीवपरिणामो योगरूपः, तस्य