SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अथ स्थानमुक्तासरिका વિચિકિત્સામિ :- વિશેષથી અથવા વિવિધ પ્રકારોથી નિંદનીય દોષોને દૂર કરવા ઉપાયો १३... घोषोने दूर 5... प्रतिहार रुं खावा प्रहारनी विहस्यात्म खा जीभ प्रहारनी गर्हा. २२६ જે કિંચિ મિચ્છામિ ઇતિ :- મેં જે કંઈ અનુચિત કર્યું હોય તે મારું દુષ્કૃત્ય મિથ્યા થાઓ. આવા પ્રકારની વાસના ગર્ભિત વચનરૂપ ત્રીજા પ્રકારની ગર્હા... ગર્લ્ડના સ્વરૂપપણાથી જ આ प्रमाणे छे. એવમપિ પ્રશ`તિ :- સ્વદોષની ગર્દાના પ્રકાર વડે પણ ‘પ્રજ્ઞપ્તા’ અર્થાત્ ‘જિનેશ્વરોએ દોષની શુદ્ધિ કહેલી છે', આવા પ્રકારના કથનનો સ્વીકા૨વારૂપ ચોથા પ્રકારની ગર્હ છે, કારણ કે આવા પ્રકારના સ્વીકારનું ગહ્યું કારણ હોય છે. ।।૧૦૯ अथ कषायाश्रयेणाह— वंशीमूलमेषशृङ्गगोमूत्रिकावलेखनिकाकेतनसमा माया शैलास्थिदारुतिनिशलतास्तम्भसमानो मानः कृमिकर्दमखञ्जनहरिद्रारागरक्तवस्त्रसमो लोभः पर्वतपृथिवीरेणुजलराजिसमः क्रोधः ॥११०॥ वंशीमूलेति, केतनं सामान्यतो वक्रं वस्तु, वंशीमूलञ्च तत्केतनञ्च वंशीमूलकेतनं, मेषशृङ्गं गोमूत्रिका च प्रतीता, अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति, वंशीमूलकेतनादिसमत्वञ्च मायायास्तद्वतामनार्जवभेदात्, तथा हि यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायापीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्यापि भावनीया, इयञ्चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपा क्रमेण ज्ञेया, वंशीमूलकेतनसमानमायामनुप्रविष्टो जीवो मृत्वा नैरयिकेषूत्पद्यते, मेषविषाणकेतनसमानमायामनुप्रविष्टस्तिर्यग्योनिषु गोमूत्रिकाकेतनसमानमायामनप्रविष्टो मनुष्येषु, अवलेखनिकाकेतनसमानमायामनुप्रविष्टश्च देवेषु, एवं मानाद्यनुप्रविष्टोऽपि । अनुप्रविष्ट उदयवर्त्तीत्यर्थः । शैलस्तम्भः शिलाविकारभूतः स्थाणुः, एवमग्रेऽपि, तिनिशो वृक्षविशेषः तस्य लता - कम्बा, सा चात्यन्तमृद्वी, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषाज्ज्ञेया, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः, कृमिरागे वृद्धसम्प्रदायोऽयम्, यथा मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते ततस्तत्र कृमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निर्हारलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते तच्च स्वपरिणामरागरञ्चितमेव भवति, तत्र कृमीणां रागो रञ्जकरसः तेन रक्तं कृमिरागरक्तमेवं सर्वत्र, कर्दमो गोवाटादीनाम्, खञ्जनं दीपादीनाम्, हरिद्रा प्रतीतैव । कृमिरागादिरक्तवस्त्रसमानता च
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy