________________
२१४
अथ स्थानमुक्तासरिका निर्वापकथा, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावद्रविणं तत्रोपयुज्यत इति निष्ठानकथा, तत्र दोषा: 'आहारमन्तरेणापि गृद्धया जायते साङ्गारम् । अजितेन्द्रियतौदरिक वादस्त्वनुज्ञादोषश्चे'ति । देशविधिदेशविकल्पदेशच्छन्ददेशनेपथ्यकथाश्रया देशकथा, देशे मगधादौ विधिविरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशवीधिः तत्कथा देशविधिकथा, एवमग्रेऽपि, विकल्प: सस्यनिष्पत्तिः, वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या, अन्यत्रागम्येति, नेपथ्यं स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषाः 'रागद्वेषोत्पत्तिः स्वपक्षपरपक्षतश्चाधिकरणम् । बहुगुण एष इति देशः श्रुत्वा गमनं चान्येषामि'ति । अतियानकथा निर्याणकथा बलवाहनकथा कोशकोष्ठागारकथा च राजकथा राजादेर्नगरादौ प्रदेशकथाऽतियानकथा, यथा 'सितसिन्धुरस्कन्धगतः सितचामरः श्वेतछत्रछन्ननभाः । जननयनकिरणश्वेत एष प्रविशति पुरे राजे'ति । निर्गमकथा निर्याणकथा, यथा 'वाद्यमानायुधममन्दबन्दिशब्दं मिलत्सामन्तम् । संक्षुब्धसैन्यमुद्भूतचिह्न नगरान्नृपो निर्याति' इति । बलं हस्त्यादि, वाहनं वेगसरादि तत्कथा यथा 'हेषद्धयं गद्जं घनघनायमानरथलक्षम् । कस्यान्यस्यापि सैन्यं निर्नाशितशत्रुसैन्यं भोः' इति, भाण्डागारं कोशः, धान्यागारं कोष्ठागारं तत्कथा यथा 'पुरुषपरम्पराप्राप्तेन भृतविश्वम्भरेण कोशेन । निजितवैश्रवणेन तेन समः को नृपोऽन्य' इति । तत्रैते दोषाः 'चारिकचौराभिमरा हृतमारितशंकां कर्तुकामा वा । भुक्ताभुक्तयोरवधावनं कुर्याद्वाऽऽशंसाप्रयोगमि'ति । अथ धर्मकथा प्राह आक्षेपणीति, आक्षिप्यते मोहात्तत्त्वं प्रत्याकृष्यतेश्रोताऽनयेत्याक्षेपणी, विक्षिप्यते सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी धर्मकथाधिकारादत्रोत्तरपक्ष एव ग्राह्यः, संवेगयति संवेगं करोति संवेज्यते संवेगं ग्राह्यते वा श्रोताऽनयेति संवेदनी संवेजनी वा, निर्विद्यते संसारादेनिविण्णः क्रियतेऽनयेति निर्वेदनीकथा । आचारव्यवहारप्रज्ञप्तिदृष्टिवादाश्रयेणाद्या कथा भवति, आचारो लोचास्नानादिः, तत्प्रकाशनेनाक्षेपणी, व्यवहारः कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनम्, दृष्टिवादः श्रोत्रपेक्षया नयानुसारेण सूक्ष्मजीवादिभावकथनम्, आचारादयो ग्रन्था वा । विक्षेपणीकथा च स्वसिद्धान्तगुणानुद्दीपयित्वा ततः परसमयदोषकथनम्, तथा परसमयकथनपूर्वकं स्वसमयगुणव्यवस्थापनम्, एवं परसमयेषु घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग्वादस्तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वविरुद्धत्वान्मिथ्यावादस्तस्य दोषदर्शनपूर्वकं वर्णनम्, परसमयेष्वेवमिथ्यावाद