SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र १९९ भवमनुबध्नन्ति-अविच्छिन्नं कुर्वन्तीत्येवंशीला अनन्तानुबन्धिनः, सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धिनः, तेषां चारित्रमोहनीयत्वात् । न चोपशमादिभिरेव चारित्री, अल्पत्वात्, यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवत्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, न विद्यते प्रत्याख्यानमणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः, प्रत्याख्यानं सर्वविरतिरूपमेव आवृणोतीति प्रत्याख्यानावरणम् । संज्वलयति दीपयति सर्वसावद्यविरतिमपि, इन्द्रियार्थसम्पाते वा संज्वलयति दीप्यत इति संज्वलनो यथाख्यातचारित्रावारकः । आभोगो ज्ञानं तेन निर्वतितो यज्जानन् कोपविपाकादि रुष्यति स आभोगनिवर्तितः क्रोधादिः, इतरस्तु यदजानन् रुष्यति सोऽनाभोगनिवर्तितः, उपशान्तोऽनुदयावस्थः, तत्प्रतिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिवर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिवर्तितस्तु तद्भवापेक्षयापि, उपशान्तो नारकादीनां विशिष्टोदयाभावात्, अनुपशान्तो निर्विचार एव । एभिः क्रोधादिभिश्चतुर्भिर्जीवः कर्मप्रकृतीनां कालत्रयेऽपि चयनं, उपचयनं बन्धनमुदीरणं वेदनं देशनिर्जरणञ्च करोति, तत्र कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं चयनम्, चितस्याबाधाकालं मुक्त्वा ज्ञानावरणादितया निषेक उपचयनम्, तस्यैव निषिक्तस्य पुनरपि कषायपरीणतिविशेषान्निकाचनं बन्धनम्, अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमुदीरणम्, स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेनवोदयभावमुपनीतस्यानुभवनं वेदनम् । कर्मणोऽकर्मत्वभवनं निर्जरणं तच्च देशतः सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात् ॥९४॥ હવે મોહના વિશેષભૂત કષાયને આશ્રયીને કહે છે. ક્રોધ-માન-માયા અને લોભરૂપ ચાર કષાય છે. કષાય = પ્રાણીઓને જે હણે છે તે કષ-કર્મ... તેના લાભનો હેતુ હોવાથી તે કપાય डेवाय छे. ક્રોધ = ક્રોધ મોહનીયના ઉદયથી પ્રાપ્ત થતો જીવનો પરિણામ વિશેષ.. અથવા ક્રોધ भोडनीय भ मे ४ ओप... આ રીતે માન-માયા તથા લોભ કષાયમાં પણ જાણવું. તેમાં સામાન્યથી ચારે કષાયો નારકથી માંડી વૈમાનિક દેવો પર્યત અર્થાત્ ૨૪ દંડક સુધી डोय छे... पाहिना यार माघार छ... पाहि यार स्थानमा २3ना२। छे. (१) मात्म प्रतिष्ठित (२) ५२ प्रसिछित (3) मय प्रतिष्ठित (४) प्रतिcिd.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy