________________
१९६
(3) अशरशानुप्रेक्षा
जन्म - जरा - मरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते ।
जिनवरवचनादन्यत्र, नास्ति शरणं कवचिल्लोके ॥
:
अथ स्थानमुक्तासरिका
જન્મ-જરા અને મરણના ભયો વડે પરાભૂત થયે છતે, વ્યાધિની પીડા વડે ગ્રસ્ત થયે છતે,
આ લોકમાં જીવને જિનવરના વચન સિવાય બીજું કોઈ શરણરૂપ નથી.
આ રીતે શરણ રહિત એવા આત્માની અનુપ્રેક્ષા તે અશરણાનુપ્રેક્ષા...
(४) संसारानुप्रेक्षा :
माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे ।
व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥
આ સંસારમાં માતા થઈને દીકરી, બેન કે સ્રી થાય છે, દીકરો થઈને પિતા થાય છે, ભાઈ થાય છે વળી શત્રુ પણ થાય છે.
આ પ્રમાણે ચારે ગતિમાં સર્વ અવસ્થાઓમાં ભ્રમણરૂપ સંસારની ભાવના તે સંસાર અનુપ્રેક્ષા. હવે શુક્લ ધ્યાનની વિચારણા. II૯૨॥
अथ शुक्लध्यानं स्वरूपलक्षणालम्बनानुप्रेक्षणान्याश्रित्याह
सविचारपृथक्त्वाविचारकत्ववितर्कानिवर्त्तिसूक्ष्मक्रियाप्रतिपातिसमुच्छिन्न
क्षान्तिमार्दवार्जवमुक्त्यालम्बनमनन्त
क्रियस्वरूपमव्यथाऽसंमोहविवेकव्युत्सर्गलक्ष्यं वृत्तिविपरिणामाशुभापायानुप्रेक्षं शुक्लं ध्यानम् ॥९३॥
सविचारेति, विचार:- अर्थाद्व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन् विचरणम्, तेन युतं तथैकद्रव्याश्रितानामुत्पादादिपर्यायाणां पृथक्त्वेन भेदेन पूर्वगतश्रुतालम्बनो नाना नयानुसरणलक्षणो वितर्को यस्मिंस्तथाविधमेकं स्वरुपम् । अर्थव्यञ्जनयोरितरस्मादितरत्र मनः प्रभृतीनाञ्चान्यतरस्मादन्यत्र सञ्चरणलक्षणविचारविधुरं तथोत्पादादिपर्यायाणामेकत्वेनाभेदेनान्यतमपर्यायालम्बनतया पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा वितर्को यत्र तथाविधं द्वितीयम् । प्रवर्धमानतरपरिणामादनिवर्ति केवलिनो निर्वाणगमनकाले निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्य कायिकी उच्छासादिका सूक्ष्मा क्रिया यस्मिंस्तादृशं तृतीयम् । अनुपरतिस्वभावं तथा शैलेशीकरणे निरुद्धयोगत्वाद्यस्मिन् कायिक्यादिका क्रिया क्षीणा तथा स्वरूपं चतुर्थम् । तस्य लक्षणानि देवादिकृतोपसर्गादिजनितचलनाभाव:, अव्यथा, देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च मोहाभावो -