SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अथ स्थानमुक्तासरिका आज्ञेति, आ-अभिविधिना ज्ञायन्तेऽऽर्था यथा साऽऽज्ञा प्रवचनं सा विचीयते निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानम्, अपाया रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः सा विचीयते यस्मिंस्तदपायविचयम्, विपाको ज्ञानाद्यावारकत्वादि कर्मफलं स विचीयते यस्मिंस्तद्विपाकविचयम्, संस्थानानि लोकद्वीपसमुद्रजीवादीनां तानि विचीयन्ते यस्मिस्तत् संस्थानविचयमिति चत्वारि धर्मध्यानस्य स्वरूपाणि । सूत्रव्याख्याने नियुक्त्यादौ श्रद्धानमाज्ञारुचिः, अनुपदेशेन श्रद्धानं निसर्गरुचिः आगमे आगमाद्वा श्रद्धानं सूत्ररुचिः, द्वादशाङ्गस्य विस्तराधिगमेन श्रद्धानमवगाढरुचिरित्येतानि तल्लक्षणानि, शिष्याय निर्जरायै सूत्रदानादि वाचना शङ्किते सूत्रादौ तदपनोदनाय गुरोः प्रच्छनं प्रतिप्रच्छनम्, पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्त्तना, सूत्रार्थानुस्मरणमनुप्रेक्षेत्यालम्बनं तस्य I 'एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भावीति यो ममे'त्येवमात्मनोऽसहायस्य भावना एकानुप्रेक्षा, 'कायः संनिहितापायः सम्पदः पदमापदाम् । समागमास्सापगमाः सर्वमुत्पादिभङ्गुर' मित्येवं पदार्थानां नित्यत्वस्य भावनाऽनित्यानुप्रेक्षा, 'जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके' इत्यत्राणस्यात्मनो भावनाऽशरणानुप्रेक्षा, 'माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव' इति चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणसंसारस्य भावना संसारानुप्रेक्षेति ध्यानानन्तरं पर्यालोचनानि ॥ ९२ ॥ હવે સ્વરૂપ, લક્ષણ, આલંબન અને અનુપ્રેક્ષાના આશ્રય વડે ધર્મધ્યાન જણાવે છે. धर्मध्यानना यार प्रार... १९४ , (१) आज्ञा वियय :- 'आ' = अभिविधि-व्याप्तिथी यारे जानुथी अर्थो भेना वडे भगाय તે આજ્ઞા-પ્રવચન, તે ચિંતન કરાય-નિર્ણય કરાય કે જેમાં વિચારાય તે આજ્ઞાવિચય ધર્મધ્યાન... (२) अपाय वियय :- अपाय = પ્રાણીઓને રાગાદિથી ઉત્પન્ન થયેલા આ લોકસંબંધી કે પરલોક સંબંધી જે અનર્થો તે જેમાં વિચારાય તે અપાય વિચય... (૩) વિપાક વિચય :- જ્ઞાનાદિને આવરણ કરનાર વિગેરે જે કર્મ અને તેનું ફળ તેનો જેમાં વિચાર કરાય તે વિપાક વિચય... (૪) સંસ્થાન વિચય :- સંસ્થાન = લોક-દ્વીપ-સમુદ્ર અને જીવાદિના આકાર-સ્વરૂપનું ચિંતન જેમાં કરાય તે સંસ્થાન વિચય... આ ચાર ધર્મધ્યાનના સ્વરૂપ જાણવા.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy