________________
१७५
स्थानांगसूत्र
स्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्जराकारणान्याह
मनोवाकायैर्निग्रन्थस्य श्रुताध्ययनैकाकिविहारप्रतिमोपसम्पदपश्चिममारणान्तिक संलेखनाऽऽकांक्षणं महानिर्जरायै ॥७८॥ .
मन इति, कथमहमल्पं बहु वा श्रुतमध्येष्यामि, कथमेकाकिविहारप्रतिमामुपसंपद्य विहरिष्यामि कथं वाऽपश्चिममारणान्तिकसंलेखनावान् कृतभक्तपानप्रत्याख्यानः पादपोपगतः कालमनवकांक्षमाणो विहरिष्यामीति मनसा वचसा कायेन पर्यालोचयति यस्तस्य महती कर्मक्षपणा भवति ॥७८॥
સ્થવિર કલ્પ સ્થિતિ સ્વીકારનારને વિશિષ્ટ પ્રકારની નિર્જરા થાય છે તેના કારણો કહે છે... ત્રણ મનોરથ વડે શ્રમણ મહા નિર્જરાવાળો બને છે (१) स्यारे डं थोडं 3 पारे श्रुत माश...? (२) स्यारे हुं 55 प्रतिमा स्वारीने वियरीश...
(૩) ક્યારે હું અપશ્ચિમ ભારણાંતિક સંલેખનાની આચરણ કરતો, આહાર - પાણીના પચ્ચકખાણ કરતો, પાદપોગમન અનશનમાં રહેલો... કાળની ઇચ્છા નહીં કરતો વિચરીશ, આ પ્રમાણે મન-વચન અને કાયાથી જે વિચારણા કરે તેની મહાન નિર્જરા થાય છે. //૭૮
कर्मनिर्जरायाः पुद्गलपरिणामत्वात्तत्परिणामविशेषं तद्वत्तारं चाह
पुद्गलः पुद्गलान्तरं प्राप्य रूक्षतया लोकान्ते वा प्रतिहन्येत, एकद्वित्रिभेदाच्चक्षुस्त्रिधा, ऊर्वाधस्तिर्यग्भेदतो वस्तुपरिच्छेदः ॥७९॥ ___पुद्गल इति, परमाणुपुद्गलोऽन्यं परमाणुपुद्गलं प्राप्य गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावात् । सचक्षुषामेव तदवगमाच्चक्षुनिरूपयति-एकेति, चक्षुर्लोचनं तद्र्व्यतोऽक्षि, भावतो ज्ञानं, तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मान् इत्यर्थः । स संख्याभेदात्रिधा, अतिशयवच्छुतज्ञानादिवर्जितः छद्मस्थश्चक्षुरिन्द्रियापेक्षयैकचक्षुः, देवो द्विचक्षुः, चक्षुरिन्द्रियावधिभ्याम्, आवरणक्षयोपशमोत्पन्नश्रुतावधिज्ञानदर्शनवान् त्रिचक्षुश्चक्षुरिन्द्रियपरमश्रुतावधिभिः, स हि साक्षादिव समस्तवस्तूनि हेयोपादेयान्यवलोकयति । केवलज्ञानी त्विह न व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुद्रंयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया चक्षुस्त्रयाभावात्, द्रव्येन्द्रियापेक्षया तु सोऽपि न निरुध्यते । चक्षुष्मतोऽविपरीतत्या संशयराहित्येन वस्तुपरिच्छेदाज्ज्ञानविशेषापेक्षयाऽऽह-ऊर्वेति, भेदत्रयेणायं वस्तुपरिच्छेदः