SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र ____ १५९ અજ્ઞાન મિથ્યાત્વના ત્રણ પ્રકાર છે. (१) १२ मशान (२) सर्व मशान (3) मा अशानन मेथी ४९ ५.१२ . शान = સર્વ દ્રવ્ય અને પર્યાય વિષયક બોધ, તેનાથી વિરૂદ્ધ તે અજ્ઞાન. દેશ અજ્ઞાન - વિવલિત દ્રવ્યનું દેશથી અર્થાત્ કોઈક અંશનું અજ્ઞાન... તે દેશ અજ્ઞાન. सर्व मशान :- विवक्षित द्रव्यने संपू[५ो न को ते सर्व मशान... ભાવ અજ્ઞાન :- વિવક્ષિત દ્રવ્ય પર્યાયથી નથી જણાતો ત્યારે ભાવ અજ્ઞાન.. આ પ્રમાણે ત્રણે મિથ્યાત્વરૂપ જાણવા. દા. मिथ्यात्वविपर्ययं धर्ममाह श्रुतचारित्रास्तिकायधर्मभेदो धर्मः, धार्मिकाधार्मिकमिश्रभेदः स्वकीयपरकीयमिश्रभेदो वोपक्रमः तथा वैयावृत्त्यानुग्रहादयोऽपि ॥७०॥ श्रुतेति, श्रुतधर्मः स्वाध्यायः, चारित्रधर्मः क्षान्त्यादिश्रमणधर्मः, एतौ द्वौ भावधर्मी विज्ञेयौ, अस्तिशब्देन प्रदेशा ग्राह्याः, तेषां काय-समूहोऽस्तिकायः, तत्संज्ञको धर्मोऽस्तिकायधर्मः, गत्युपष्टम्भको धर्मास्तिकाय इत्यर्थः, अयञ्च द्रव्यधर्मः श्रुतचारित्रधर्मविशेषानाह-धार्मिकेति, उपक्रमः-उपायपूर्वकारम्भः, श्रुतचारित्रार्थः आरम्भो धार्मिकः, अश्रुतसंयमार्थः आरम्भोऽधार्मिकः, मिश्रश्च देशविरत्यारम्भः । नामस्थापनाद्रव्यक्षेत्रकालभावभेदाद्वोपक्रमः षड्विधः, नामस्थापने सुज्ञाने, द्रव्योपक्रमस्तूभयव्यतिरिक्तः सचित्ताचित्तमिश्रभेदात्रिविधः, आद्यो द्विपदचतुष्पदापदभेदवान्, प्रत्येकं परिकर्मवस्तुविनाशापेक्षया द्विविधः, तत्र परिकर्मद्रव्यस्य गुणविशेषकरणं यथा घृताधुपयोगेन पुरुषस्य वर्णादिकरणम्, शुकसारिकादीनां वा शिक्षागुणविशेषकरणम्, चतुष्पदानां हस्त्यादीनामपदानाञ्च वृक्षादीनां तदायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनम्, वस्तुविनाशः पुरुषहस्त्यादीनां खड्गादिभिर्विनाशकरणम् । पद्मरागादिमणे: क्षारमृत्पुटपाकादिना नैर्मल्यापादनं विनाशश्चाचित्तद्रव्योपक्रमः । कटकादिविभूषितपुरुषादिद्रव्यस्य तथा करणं मिश्रद्रव्योपक्रमः । शालिक्षेत्रादेः परिकर्म विनाशो वा क्षेत्रोपक्रमः । चन्द्रोपरागादिलक्षणकालस्योपायेन परिज्ञानं कालोपक्रमः । प्रशस्ताप्रशस्तभावस्योपायतः परिज्ञानमेव भावोपक्रमः, तत्राप्रशस्तो डोड्डिनीगणिकामात्यदृष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति । एवञ्च धार्मिकस्य-संयतस्य चारित्राद्यर्थं द्रव्यक्षेत्रकालभावानामुपक्रमो धार्मिकोपक्रमः । असंयतस्यासंयमार्थं तथाविधोपक्रमोऽधार्मिकोपक्रमः, देशविरतस्य तथाविधोपक्रमो मिश्रोपक्रमः । स्वाम्यन्तरभेदेनोपक्रमं त्रिधाऽभिधत्ते-स्वकीयेति,
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy