SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४७ स्थानांगसूत्र निर्ग्रन्थधर्मानाचष्टे दृष्ट्वा निशम्य तृतीयमृषावादमाश्रित्याऽऽलोचनं च निर्ग्रन्थः साधर्मिकं साम्भोगिकं विसम्भोगिकं कुर्वन्नातिक्रामति, अनुज्ञासमनुज्ञोपसम्पदादय आचार्योपाध्यायगणित्वैस्त्रिधा ॥२॥ दृष्ट्वेति, यो निर्ग्रन्थः साधर्मिकं समानधर्मचारिणं साम्भोगिकं-संभोगः-साधूनां समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य तं तथा विसंभोगो दानादिभिरसंव्यवहारः स यस्यास्तीति तं विसम्भोगिकं करोति स त्रिभिः स्थानराज्ञां सामायिकं वा न लङ्घयति विहितकारित्वात्, त्रिस्थानञ्च दृष्ट्वा-साक्षात् सांभोगिकेन क्रियमाणामसाम्भोगिकदानग्रहणादिकामसामाचारी विलोक्य, निशम्य-श्रद्धेयवचनान्यसाधोर्वचनमवधार्य, अकल्पग्रहणपार्श्वस्थदानादिना सावधविषयप्रतिज्ञाभङ्गलक्षणमेकवारं द्विवारं त्रिवारं वाऽऽनाभोगतः कृतं मृषावादमाश्रित्यालोचनं प्रायश्चित्तं च । चतुर्थं मृषावादमाश्रित्य तु प्रायो नालोचनयोग्यः, तस्य दर्पत एव भावात्, आलोचनेऽपि नास्य प्रायश्चित्तं दीयते, अत्राद्यं स्थानद्वयं गुरुतरदोषाश्रयम्, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयन्त्वल्पतरदोषाश्रयम्, तत्र हि चतुर्थवेलायां स विधीयत इति । अनुज्ञेति, अनुज्ञा-अधिकारदानम्, समनुज्ञा-औत्सर्गिकगुणयुक्तत्वेनोचिताऽऽचार्यादितयाऽनुज्ञा, उपसम्पत्तिः-ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः, तथा हि कश्चित्स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावक शास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरणविस्मृतसन्धानार्थं चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते सेयमाचार्योपसम्पत्, एवमुपाध्यायगणिनोरपि । अनुज्ञासमनुज्ञोपसम्पत्त्रयं प्रत्येकमाचार्यत्वादिभेदेन त्रिधैव । आदिपदग्राह्य आचार्यादेः परित्यागोऽपि त्रिधा, स च स्वकीयप्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोपसम्पत्त्या भवति, अथवाऽऽचार्यादिर्ज्ञानाद्यर्थमुपसम्पन्नं यति तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा यत् परित्यजति, स आचार्यादिपरित्याग इति ॥६२॥ । दृष्टवाल... સાંભોગિક - જે સાધુઓમાં સમાન સામાચારીને કારણે પરસ્પર ઉપધિ વિગેરે લેવા-દેવા રૂપ વ્યવહાર છે તેઓ સાંભોગિક કહેવાય. અર્થાત્ જેઓનો સમાન ધર્મ છે તે સાંભોગિક.. વિસાંભોગિક - સમાન સામાચારીના અભાવે જેઓનો લેવા-દેવા રૂપ વ્યવહાર નથી તે વિસાંભોગિક.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy