________________
१४४
अथ स्थानमुक्तासरिका
આથી નિશ્ચિત થાય છે કે કરેલા કર્મ દુઃખ માટે થાય છે, પ્રાણીઓ કર્મ કરી - કરીને કર્મથી પ્રાપ્ત થયેલ શુભ તથા અશુભ પીડાનો અનુભવ કરે છે આ રીતે સમ્યગું કહેનારાઓનું મંતવ્ય છે. ॥पला
पुनर्जीवधर्मापेक्षया त्रिस्थानमाह
कृतवान् कुर्वन् करिष्यन् वाऽकार्यमकीर्त्यवर्णाविनयैर्वा कीर्तियशःपूजासत्कारहानिभ्यो वाऽऽलोचनप्रतिक्रमणनिन्दादीनि न प्रतिपद्यते, इहपरलोकोपपातगर्हाप्रशंसाभिस्तु प्रतिपद्यते ॥६०॥ .. कृतवानिति, मायावी हि गोपनीयं यत्किञ्चिदकार्यं कृरवाऽकार्षमिदमहमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्यभिमानादथवा करोमि चाहमिदानीमेव कथमसाध्विति भणामि, यद्वा करिष्यामि चाहमेतदकृत्यमनागतकालेऽपि तत्कथं प्रायश्चित्तं प्रतिपद्य इत्यभिमानादुरवे निवेदनलक्षणमालोचनं न प्रतिपद्यते नापि मिथ्यादुष्कृतप्रदानरूपं प्रतिक्रमणं न चात्मसाक्षिकां निन्दा नापि गुरुसाक्षिकां गहाँ न वा तदध्यवसायविच्छेदनात्मकं वित्रोटनं नापि वाऽऽत्मनश्चारित्रस्य वाऽतीचारमलक्षालनस्वरूपं विशोधनं नाप्यकरणताभ्युत्थानं न वा यथोचितं पापच्छेदकं निर्विकृतिकादि तपः प्रतिपद्यते, एकदिग्गामिनी प्रसिद्धिः कीर्तिः, सर्वदिग्गामिनी प्रसिद्धिर्वर्णस्तदभावभीत्या साधुकृताविनयभीत्या च नालोचनादि प्रतिपद्यते, इदञ्चाप्राप्तप्रसिद्धिपुरुषापेक्षम् । तथा कीर्तियशःपूजासत्काराणां हीनता स्यादिति नालोचनादिकं प्रतिपद्यते, इदन्तु प्राप्तप्रसिद्धिपुरुषापेक्षयोक्तम् । किन्तु स कथमालोचनादि प्रतिपद्यत इत्यत्राह-इहेति, इहलोको गर्हितो भवति, आगामी गर्हितो भवति, उपपातो गर्हितो भवतीत्यालोचनादि प्रतिपद्यते-तथेहलोकः प्रशस्तो भवति, आगामिलोकः प्रशस्तो भवति, उपपातः प्रशस्तो भवतीति च । अकृत्यकरणकाल एव मायी, न त्वालोचनादिकाले, आलोचनान्यथानुपपत्तेरिति बोध्यम् ॥६०॥ પ્રસ્તુત સૂત્રમાં જીવના ધર્મોની અપેક્ષા વડે ત્રણ સ્થાનક કહેવાય છે. માયાવી આત્મા દોષ કરીને ત્રણ કારણથી તેની આલોચના વિગેરે કરતા નથી. . (१) भूतभा में पार्नु माय२९॥ ... (२) वर्तमान मां हुं पार्नु माय२५॥ ४६॥ २यो छु... (3) भविष्यमा ५९॥ माय२९॥ ७२२२... તો પ્રાયશ્ચિત શા માટે કરૂં? નિંદા કરવા યોગ્ય પાપની આલોચના કેમ કરું?