________________
स्थानांगसूत्र
.
१२७
१२९थी. दोमi | ३८छ... (१) अरिहंत भगवंताना न्म समये.. (२) भारित मातोनी Elan समये.. (3) मरिहत मतान शान समये वो द्वारा महोत्सव समये..!
આમ આ ત્રણ કારણે દેવો પરમાત્માનો મહિમા કરવા મનુષ્ય લોકમાં આગમન કરે છે - તે સમયે હર્ષ સભર દેવોનો મધુર કલકલ અવાજ થાય છે, દેવોના આસન ચલાયમાન થાય છે... દેવો પ્રભુ ભક્તિથી પોતાના સિંહાસન ઉપરથી તુરત ઊભા થઈ જાય છે. તથા ચૈત્ય વૃક્ષનું ચલન વિગેરે ક્રિયાઓ થાય છે. II૪૬ll ___ अर्हतां धर्माचार्यतया तत्पूजाद्यर्थं देवानां मनुजलोक आगमः, धर्माचार्या ह्यशक्यप्रत्युपकारा एतदेवाह
पितरौ भर्ती धर्माचार्यश्च सेवासर्वस्वदानसुदेशादिप्रापणैरपि दुष्प्रतिकराः, धर्मस्थापनेनैव च सुप्रतिकराः ॥४७॥
पितराविति, एते त्रयः, दुःखेन-कृच्छ्रेण प्रतिक्रियन्ते कृतोपकारेण पुंसा प्रत्युपक्रियन्ते इति दुष्प्रतिकराः प्रत्युपकर्तुमशक्या इत्यर्थः, माता च पिता च पितरौ, जनकत्वेनैकत्वविवक्षणात्तस्यैकं स्थानम्, भर्ता पोषकः स्वामीत्यर्थः, धर्मदाता आचार्यो धर्माचार्यः, उक्तञ्च 'दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः' इति, यो हि कुलीनो मानवोऽहरहर्मातापितरौ शतपाकसहस्रपाकाभ्यां तैलाभ्यामभ्यङ्गं गन्धद्रव्येणोद्वलनश्च कृत्वा गन्धोदकोष्णोदकशीतोदकैः स्नापयित्वा मनोज्ञं भक्तदोषरहितं स्थालीपाकं सव्यञ्जनं भोजयित्वा यदि यावज्जीवं स्कन्ध आरोप्य परिवहेत्तावताऽपि तावशक्यप्रतीकारौ भवतः, किन्तु तौ यदा भगवदुदितं धर्ममाख्याय प्रभेदतो बोधयित्वाऽनुष्ठाननो धर्मे स्थापयति तदाऽनेनैव धर्मस्थापनेन मातापित्रोः सुखैनैव प्रत्युपक्रियते धर्मस्थापनस्य महोपकारत्वात् । तथा कोऽपि दरिद्रः केनापि भर्ना धनदानादिनोत्कृष्टः कृतः स ततो भर्तुः समक्षमसमक्षं वा विपुलभोगसमुदयेन युक्तोऽभूत्, अथ लाभान्तरायोदयेनासह्यायामापदि स भर्ता दरिद्रीभूतः सन्ननन्यत्राणतया पूर्वदरिद्रस्य सम्प्रति समुत्कृष्टस्य यदा पार्श्व आगच्छति तदाऽयं पूर्वोपकारिणे भर्ने यदि सर्वस्वं ददाति तदाऽपि न कृतप्रत्युपकारो भवति, किन्तु भगवदुदितधर्मसंस्थापनेनैवेति । एवमेव कश्चिन्मनुजो धर्माचार्येण केनचिद्धार्मिकं सुवचनं निशम्य मनसाऽवधार्य कालं गतोऽन्यतरेषु देवेषु देवत्वेनोत्पन्नः स देवो यदि