________________
स्थानांगसूत्र
११५
(१) हेवेन्द्र (२) असुरेन्द्र (3) मनुष्येन्द्र
(१) हेवेन्द्र :- हेवो - वैमानि अथवा भ्योतिष्डो ने वैमानिकी, ३ढिथी समवा. (२) असुरेन्द्र :- ३ढिथी असुरां लवनपति विशेषो अथवा लवनपति अने व्यंतरी. સુરનો નિષેધ ક૨વાથી અર્થાત્ સુર નહીં તે અસુર.
(અહીં નતત્પુરૂષ સમાસ પર્યુદાસ વિધિથી છે પરંતુ પ્રસજ્ય પ્રતિષેધ વિધિથી નિષેધ નથી.) (3) मनुष्येन्द्र :- यवर्ती वगेरे मनुष्येन्द्र छे.
દેવેન્દ્ર, અસુરેન્દ્ર અને મનુષ્યેન્દ્ર આ ત્રણે ઇન્દ્રોની વૈક્રિય કરવા વગેરેની શક્તિ હોવાથી इन्द्रपसुं छे. जा अरएाथी विदुर्वशानुं नि३पए। डरता हे छे... ॥३८॥
ऐवेन्द्रादीनां त्रयाणां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणामाहबाह्याभ्यन्तरतदुभयपुद्गलान् पर्यादायापर्यादायोभयथा वा विकुर्वणा, एकेन्द्रियवर्जा नारकादयः कत्यकत्यवक्तव्यकसञ्चिताः ॥३९॥
बाह्येति, भवधारणीयशरीरानवगाढक्षेत्र प्रदेशवर्त्तिनो वैक्रियसमुद्घातेन बाह्यान् पुद्गलान् गृहीत्वैका विकुर्वणा क्रियते, या तु भवधारणीयरूपैव साऽपर्यादाय विकुर्वणा, यत्तु भवधारणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायाप्यपर्यादायापीति तृतीया व्यपदिश्यते । यद्वा विकुर्वणा विभूषणं तत्र बाह्यपुद्गलानादायाभरणादीन्, अपर्यादाय केशनखसमारचनादिना, उभयतस्तूभयथेति । आभ्यन्तरान् पुद्गलान् पर्यादाय विकुर्वणा भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्त्तन्ते तेऽभ्यन्तरपुद्गला इति, तानपर्यादाय विकुर्वणा द्वितीया, उभयथेति तृतीया । भूषापक्षे निष्ठीवनादय आभ्यन्तरपुद्गला इति । तदुभयपुद्गलान् पर्यादायापर्यादायोभयथेति त्रैविध्यम्, उभयेषामुपादानाद्भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनञ्च, अनादानाच्चिरविकुर्वितस्यैव भुखादिविकारकरणम्, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषाञ्चानादानतोऽनिष्टरूपभवधारणीयेतर - रचनमिति । विकुर्वणा चेवं नारकाणामपि भवत्यतो नारका श्रयेणाह - एकेन्द्रियवर्जा इति, एकेन्द्रियेषु प्रतिसमयमसंख्याता अनन्ता वाऽकतिशब्दवाच्या एवोत्पद्यन्ते न त्वेक: संख्याता वा, अतस्तद्वर्जनम्, नारकादीत्यादिना चतुर्विंशतिदण्डकोक्ता वाच्याः, तत्र नारकाः इतिसंख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः - कत्युत्पत्तिसाधर्म्याद् बुद्धया राशीकृता कतिसञ्चिताः । एकैकसमयेऽसंख्याता उत्पन्नाः सन्तस्तथैव सञ्चितास्तेऽकतिसञ्चिताः, यः परिणामविशेषो न कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः, स चैक इति तत्सञ्चिता