________________
१०८
अथ स्थानमुक्तासरिका
अथ त्रिस्थानंकमाश्रित्य जीवधर्मानाहनामस्थापनाद्रव्यभेदेन ज्ञानदर्शनचारित्रभेदेन देवासुरमनुष्यभेदेन चेन्द्रस्त्रिविधः
॥३८॥
नामेति, नाम संज्ञा, ऐश्वर्यादिन्द्र इति यथार्थ इन्द्रेत्यक्षरात्मक इन्द्रो नामेन्द्रः, यद्वा सचेतनस्याचेतनस्य वा यस्येन्द्र इति नाम यथार्थ क्रियते स नामतद्वतोरभेदोपचारान्नामेन्द्रः । अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्रः । नामलक्षणञ्च यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयश्च नाम यादृच्छिकञ्च तथा' इति । इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः, अक्षादिन्यासस्त्वितरः, स्थापनालक्षणञ्च यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः । लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालञ्चे 'ति । द्रव्यलक्षणन्तु 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके तद्द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम्' तथा 'अनुपयोगो द्रव्यमप्रधानञ्चे'ति । तत्तत्पर्यायगमनलक्षणं द्रव्यं तच्च भूतभावं भाविभावञ्च तथाविध इन्द्रो द्रव्येन्द्रः । स चाऽऽगमतो नोआगमतश्चेति द्विधा, ज्ञानापेक्षया तद्विपर्ययापेक्षयेति यावत्, इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः प्रथमः । द्वितीयस्तु ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदात्रिविधः, इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलातलादिगतमपि घृतघटादिन्यायेन नोआगमतो द्रव्येन्द्र इति, इन्द्रज्ञानकारणत्वादिन्द्रज्ञानशून्यत्वाच्च I भाविनीं वृत्तिमङ्गीकृत्येन्द्रोपयोगाधारं यच्छरीरं मधुघटादिन्यायेनैव तद्वालादिशरीरं भव्यशरीरद्रव्येन्द्र इन्द्रशब्दार्थज्ञानयोग्यत्वात् । तदुभयव्यतिरिक्तश्च भावेन्द्रकार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत् यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तदपि तथा ज्ञशरीरद्रव्येन्द्रवत्, यश्च भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदपि तथा भव्यशरीरद्रव्येन्द्रवत् । स चावस्थानभेदेन त्रिविधः, एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, योऽनन्तरभव एवेन्द्रतयोत्पत्स्यते स आद्यः, स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवात् । स एवेन्द्रायुर्बन्धानन्तरं बद्धामायुरनेनेति बद्धायुरुच्यते स चोत्कर्षतः पूर्वकोटीत्रिभागं यावत्, ततः परमायुष्कबन्धाभावात्, संमुखे जघन्योत्कर्षाभ्यां समयान्तर्मुहूर्त्तानन्तरभावितयेन्द्रसम्बन्धिनी नामगोत्रे यस्य सोऽभिमुखनामगोत्रः, तथा भावैश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षयाऽ प्रधानत्वाच्छक्रादिरपि द्रव्येन्द्र एव द्रव्यशब्दस्याप्रधानार्थेऽपि वृत्तेः । भावेन्द्रस्त्विह