SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र १०९ त्रिस्थानकानुरोधान्नोक्तः, तल्लक्षणञ्च 'भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात्' इति, स चाऽऽगमतो नोआगमतश्च द्विधा, इन्द्रज्ञानोपयुक्तो जीवो भावेन्द्रः, नन्विन्द्रोपयोगमात्रात् कथं तन्मयता, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, तदर्थक्रियाऽप्रसाधकत्वादिति चेन्न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानमवगमो भाव इत्यनान्तरम्, तत्रार्थाभिधानप्रत्ययास्तुल्यनामधेया इति सर्ववादिनामविसंवादस्थानम्, यथा कोऽयम् ? घटः, किमयमाह ? घटशब्दम्, किमस्य ज्ञानम् ? घट इति । अग्निरिति च यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञानेऽपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत्, पुरुषान्तरवद्वा । न चानाकारं तत्, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात् बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वात् । न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधकः, भस्मच्छन्नाग्निना व्यभिचारादिति । इन्द्रनामगोत्रे कर्मणी देवयन् परमैश्वर्यभाजनं नोआगमतो भावेन्द्रः, इन्द्रव्यपदेशनिबन्धनतयेन्द्रपदार्थज्ञानस्याविवक्षितत्वात्, इन्दनक्रियाया एव विवक्षितत्वाच्च नात्र सर्वनिषेधवचनो नोशब्दः । स्थापनेन्द्र इन्द्राकारस्य लक्ष्यमाणत्वात्, तत्कर्तुः सद्भूतेन्द्राभिप्रायत्वात्, द्रष्टुस्तदाकारप्रत्ययेनेन्द्रप्रत्ययात् प्रणतिकृतधियः फलार्थिनस्तत्स्तुतिप्रवृत्तैः, तद्देवतानुग्रहात् फलप्राप्तेश्चास्य नामद्रव्येन्द्राभ्यां भेदः । द्रव्येन्द्रस्य च भावेन्द्रकारणताप्राप्तेः भाविभूतापेक्षया तदुपयोगवत्वाच्च नामस्थापनेन्द्राभ्यां भेदः । भावेन्द्रं त्रिस्थानकावतारेणाह-ज्ञानेति, ज्ञानस्य ज्ञाने वेन्द्रो ज्ञानेन्द्रः, अतिशयवच्छृताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, दर्शनेन्द्रः क्षायिकसम्यग्दर्शनी, चारित्रेन्द्रो यथाख्यातचारित्रः । एतेषां च सकलभावप्रधानक्षायिकेन भावेन, विवक्षितक्षायोपशमिकलक्षणेन वा परमार्थतो वेन्द्रत्वात्, अन्यसकलसंसार्यप्राप्ता पूर्वगुणलक्ष्मीलक्षपरमैश्वर्ययुक्तत्वाद्भावेन्द्रताऽवसेया । अथ बाह्येश्वर्यापेक्षया प्राह-देवेति, देवाः वैमानिका ज्योतिष्कवैमानिका वा रूढः, असुरा भवनपतिविशेषा भवनपतिव्यन्तरा वा सुरपर्युदासात्, मनुजेन्द्रश्चक्रवर्त्यादिरिति ॥३८॥ હવે ત્રણ સ્થાનને આશ્રયીને જીવના ધર્મોને કહે છે. ત્રણ પ્રકારના ઇન્દ્રો કહ્યા છે. (૧) નામ વડે ઇન્દ્ર તે નામેજ, (૨) ઇન્દ્રની પ્રતિમા તે स्थापना ईन्द्र, (3) भविष्यमा ४ थना२ ईन्द्र ते द्रव्य ईन्द्र छ. ___ नाम :- नाम में संश. इंदनात् = अश्वथा ४ न्द्र ते नाम ते ४ यथार्थ इन्द्र नाम उवाय छे.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy