SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८४ सूत्रार्थमुक्तावलिः अनन्ता तदोत्कृष्टतोऽसंख्येयोऽवस्थितिकालः, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेसंख्येयकालमानत्वेन नानन्तं कालं तस्यावस्थितिः । अनेकद्रव्यापेक्षया च सर्वाद्धा स्थितिरानुपूर्वीद्रव्यरहितकालस्याभावात् । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्येवमेव कालो विज्ञेय इति कालद्वारम् । आनुपूर्वीद्रव्यस्यैकद्रव्यापेक्षया समयोऽन्तरं जघन्येन, उत्कर्षेण त्वनन्तः कालः प्राप्यते आनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे । यदानुपूर्वीद्रव्यं भिन्नं भित्वा च तदीयाः परमाणवोऽन्येषु परमाणुद्व्यणुकत्र्यणुकादिस्कन्धेषु अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वात् विस्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेवानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकालः प्राप्यते कालस्यानन्तत्वादिति, नानाद्रव्यापेक्षया नास्त्यन्तरम्, नन्तानुपूर्वीद्रव्यैर्लोकस्य सर्वदाऽशून्यत्वात् । अनानुपूर्वीद्रव्यस्यैकद्रव्यापेक्षया जघन्येनैकस्समयोऽन्तरम्, उत्कर्षेणासंख्येयः कालः, तदेवानानुपूर्वीद्रव्यमन्येन परमाणुद्व्यणुकादिना केनचिद्द्रव्येण संयुज्यासंख्येयं कालं स्थित्वा यदा पुनस्तदेव स्वरूपं भजति तदाऽसंख्यात उत्कृष्टान्तरकालो लभ्यत इति, नानाद्रव्यापेक्षया नास्त्यन्तरम् । अवक्तव्यकद्रव्यस्यैकद्रव्यापेक्षया जघन्येनैकस्समयः उत्कर्षेणानन्तः कालोऽन्तरं भवति, नानाद्रव्यापेक्षया तु नास्त्यन्तरं, लोकेसर्वदैव तद्भावादित्यन्तरद्वारम् । आनुपूर्वीद्रव्याणि सर्वाणि शेषद्रव्येभ्यो नियमेनासंख्येयैर्गुणैरधिकानि शेषद्रव्याणि तु तदसंख्येयभागे वर्त्तन्ते, अनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणामसंख्यातकम एव भागे वर्त्तन्ते न संख्याततमादिभागेष्वति भागद्वारम् । आनुपूर्वीद्रव्याणि सादिपारिणामिके भाव एव भवन्ति न तु औदयिकादिभावेषु, नाप्यनादिपारिणामिकभावे वा, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात्, विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमात्रमवस्थानात्, एवमेवानानुपूर्व्यवक्तव्यकद्रव्याण्यपीति भावद्वारम् । अवक्तव्यकद्रव्याणि द्रव्यार्थतापेक्षयाऽन्येभ्यो निखिलेभ्यः स्तोकानि, अनानुपूर्वीद्रव्याणि विशेषाधिकानि, वस्तुस्थितिस्वभावात् । आनुपूर्वीद्रव्याणि च तेभ्योऽप्यसंख्येयगुणानि, आनुपूर्वीद्रव्येषु त्र्यणुकादिस्कन्धानामेकोत्तरवृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तानामनन्तस्थानावाप्तेः । अनानुपूर्वीद्रव्येषु परमाणुलक्षणस्यैकस्यैव स्थानस्यावक्तव्यकद्रव्येषु द्व्यणुकलक्षणस्य चैकस्यैव स्थानस्य प्राप्तेः । प्रदेशार्थतया चानानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, परमाणोः स्वव्यतिरिक्तप्रदेशान्तरशून्यत्वात् तेन पुद्गलास्तिकायस्य सर्वसूक्ष्मभागरूपस्य प्रदेशत्वेऽपि न क्षतिः, तेभ्योऽवक्तव्यकद्रव्याणि विशेषाधिकानि, द्विप्रदेशत्वात् । आनुपूर्वीद्रव्याणि
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy