________________
अनुयोगद्वार અનાનુપૂર્વી દ્રવ્યોમાં જ રહે છે. અવક્તવ્યક દ્રવ્યો અવક્તવ્યક દ્રવ્યોમાં જ રહે છે તે પ્રમાણે ચિંતવવું તે સમવતાર કહેવાય છે.
अथ वक्ति सम्प्रत्यनुगमम्-- अनुयोगद्वारैस्तद्विचारणमनुगमः ॥३२॥
अनुयोगद्वारैरिति, सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभागभावाल्पबहुत्वरूपैरानुपूर्व्यादिद्रव्याणां प्ररूपणमनुगम इत्यर्थः । आनुपूय॑नानुपूर्व्यवक्तव्यकशब्दाभिधेयानि त्र्यणुकादिस्कन्धपरमाणुव्यणुकानि नियमेन सन्ति, न तु पदान्येतानि शशशृङ्गादि-पदवदसदर्थविषयाणीति पर्यालोचना सत्पदप्ररूपणा । एकस्मिन्नप्याकाशप्रदेशे आनुपूर्व्यादिद्रव्याणि प्रत्येकमनन्तानि प्राप्यन्ते किं पुनस्सर्वलोके, तस्मात् संख्येयासंख्येययोनिषेधात्रिष्वपि स्थानेष्वनन्तत्वमेवेति विचारो द्रव्यप्रमाणम् । पुद्गलपरिणामस्याचिन्त्यत्वाद-संख्येयप्रदेशात्मके लोकेऽनन्तद्रव्यस्थितिर्न विरुद्धा प्रदीपप्रभावत् । आनुपूर्वीद्रव्यमेकमाश्रित्य किञ्चिल्लोकस्य संख्याततमं भागं किञ्चित्तदसंख्येयभागं किञ्चिद्बहून् तत्संख्येयभागान् अन्यच्च बहून् तदसंख्येयभागानवगाह्य तिष्ठति, अनन्तानन्तपरमाणुप्रचयनिष्पन्नम-चित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यन्तु समुद्घातवतिकेवलिवत्सकललोकावगाहि । आनुपूर्वीद्रव्याणि नानाद्रव्यापेक्षया नियमेन सर्वलोक एव भवन्ति न संख्येयादिभागेषु, सूक्ष्मपरिणामपरिणतानन्तानुपूर्वीद्रव्यरहितस्यैकस्यापि लोकाकाशप्रदेशस्याभावात् । अनानुपूर्वीद्रव्यं एकद्रव्यापेक्षया लोकस्यासंख्येयभाग एव वर्त्तते, तस्य परमाणुरूपत्वेनैकाकाशप्रदेशावगाढत्वात्, एवमेकद्रव्यापेक्षयाऽवक्तव्यकद्रव्यमपि, व्यणुकस्कन्धात्मकत्वेन तस्यैकप्रदेशावगाढत्वाद्विप्रदेशावगाढत्वाद्वा । नानाद्रव्याणि प्रतीत्य त्वेते नियमेन सर्वलोक एवेति विचिन्तनं क्षेत्रद्वारम् । एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं संख्येयभागमसंख्येयभागं संख्येयान् भागानसंख्येयान् भागान् सर्वलोकं वा स्पृशति, अनेकद्रव्यापेक्षया तु नियमेन सर्वलोकं स्पृशति, एकद्रव्यापेक्षयाऽनानुपूर्वीद्रव्यं न संख्येयादिभागं स्पृशति किन्त्वसंख्येयभागमेव, नानाद्रव्यापेक्षया तु नियमेन सर्वलोकम्, एवमवक्तकद्रव्यमपि । परन्तु स्पर्शना षड्दिकैः प्रदेशैस्तद्वहिरपि भवति तथा च परमाणुद्रव्यमाश्रित्य परमाणुद्रव्यमेकस्मिन्नेवाकाशप्रदेशेऽवगाढं स्पर्शना तु तस्य सप्तप्रादेशिकी, एवमन्यत्रापि भाव्यमिति स्पर्शनाद्वारम् । एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यस्य जघन्यत एकस्समयोऽवस्थितिकालः, तदूर्ध्वमेकस्य परमाण्वादेस्संयोगे वियोगे वा परिणामान्तरप्राप्तेः, यदा च तदेवानुपूर्वीद्रव्यं तद्भावेऽसंख्यातं कालं स्थित्वा ततः परमाण्वादिभिवियुज्यते