SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावलिः र्मुहूर्त्तमात्रेणैव व्यवधानादुदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः । उपमया वस्तुपरिच्छेद औपम्यसंख्या, इयमुपमानोपमेययोस्सत्त्वासत्त्वाभ्यां चतुर्धा, सत् सतोपमीयते, सदसतोपमीयते, असत्सतोपमीयते, असदसतोपमीयते इति, तीर्थकरवक्षआदेरुपमेयस्य कपाटदिनोपमानेन संख्यानमाद्यं, नैरयिकतिर्यग्योनिजमनुष्यदेवानामायूंषि पल्योपमसागरोपमैरुपमीयन्ते, पल्योपमादीनां कल्पनामात्रेण प्ररूपिततयाऽसत्त्वादिति द्वितीयम्, किसलयपत्रावस्थया वसन्तसमये पाण्डुपत्रावस्था उपमीयते तत्रोपमानं तत्कालभावित्वात्सत्, उपमेयञ्च भूतपूर्वत्वादसत्, सत्या पाण्डुपत्रावस्थया भविष्यत्वादसती किसलयपत्रावस्था यदोपमीयते तदा तृतीयो भेदः । असता खरविषाणेनासतश्शशविषाणस्योपमानं चतुर्थमिति । कालिकश्रुतपरिमाणसंख्यादृष्टिवादश्रुतपरिमाणसंख्यारूपेण द्विविधा परिमाणसंख्या प्रत्येकं पर्यवाक्षरादिसंख्याभेदेनानेकविधाऽनुयोग द्वारादितो विज्ञेया । ज्ञानरूपा संख्या ज्ञानसंख्या, यो देवदत्तादियावच्छब्दादिकं जानाति स तावज्जानाति तज्जानन्नसावभेदोपचाराज्ज्ञानसंख्या । एतावन्त एते इति संख्यानं गणनसंख्या द्व्यादिसंख्या, एकस्तु न गणनसंख्यामवतरति, एकस्मिन् घटादौ दृष्टे घटादिवस्त्विदं तिष्टतीति प्रायः प्रतीतेः, न तु एकसंख्याविषयत्वेन, अल्पत्वाद्वा, आदानसमर्पणादिव्यवहारकाले हि एकं वस्तु प्रायो न कश्चिद्रणयतीति । सा च संख्येयकासंख्येयकानन्तकभेदवती, संख्येकं जघन्यादिभेदात् त्रिविधम् । असंख्येयकं परीतासंख्येयकं युक्तासंख्येयकं असंख्येयासंख्येयकमिति त्रिविधमपि प्रत्येकं जघन्यादिभेदान्नवविधम्, अनन्तकं तु परीतानन्तकं युक्तानन्तकमनन्तानन्तकञ्चेति त्रिविधमपि प्रथमयोर्द्वयोर्जघन्यादित्रिभेदतोऽन्त्यस्य जघन्यानुत्कृष्टभेदद्वयतश्चाष्टविधम् । विस्तरत एषां स्वरूपमनुयोगद्वारादितोऽवसेयम् । भावशंखाश्च शंखप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रकर्म च ये विपाकतो जीवा वेदयन्ति ते भावशंखाः, संख्याशब्देन शंखस्यापि ग्रहणागुणप्रमाणादस्य भेदेन कथनमिति दिक् ॥१९॥ હવે ભાવ પ્રમાણને કહે છે ६२ • ગુણ-નય અને સંખ્યા સ્વરૂપ ભાવ પ્રમાણ છે. વસ્તુનો પરિણામ તે ભાવ, જેમ કે જ્ઞાન વિગેરે - વર્ણ વિગેરે. જે મપાય તે પ્રમાણ, ભાવ એ જ પ્રમાણ છે. તેથી ભાવપ્રમાણ ત્રણ પ્રકારનું છે. ગુણ-નય-સંખ્યા પ્રમાણ ગુણો વડે દ્રવ્યો મપાય છે અને ગુણ સ્વરૂપ હોવાથી ગુણો કહેવાય છે. આ કારણથી પ્રમાણતા ગુણોમાં છે અને ગુણ પ્રમાણ એ જીવગુણ પ્રમાણ અને અજીવગુણ પ્રમાણ બે ભેદથી છે. જીવના જ્ઞાન-દર્શન
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy