SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार तथा प्रदेशे पञ्चवृत्तित्वमिति पञ्चानां न प्रदेशः किन्तु पञ्चविधः प्रदेश इति वाच्यमिति मन्यते । ऋजुसूत्रो ब्रूते पञ्चविधः प्रदेश इति न सम्भवति, प्रत्येकं धर्मादिप्रदेशानां पञ्चविधत्वप्राप्तेः, शब्दाद्धि प्रकृते वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवञ्च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति तस्मात्प्रदेशो भजनीयः, स्याद्धर्मास्तिकायस्य प्रदेश: स्यादधर्मास्तिकायस्येत्यादि । शब्दनयश्च प्राह भजनाया विकल्परूपत्वेनैकतरमादाय विनिगन्तुमशक्यत्वाद्यो यदीयः प्रदेशः स तदीय एवेति व्यवस्थाया विलोपप्रसङ्गः, धर्मास्तिकायादिप्रदेशस्याधर्मास्तिकायादित्वेनापि भजनीयत्वप्रसङ्गात् किन्तु धर्मास्तिकाये यः प्रदेशः स धर्मास्तिकायात्मकः, धर्मास्तिकायात्मको य: प्रदेशस्स धर्मास्तिकाय इत्येवमधर्माकाशास्तिकाययोरपि, सोऽपि प्रदेशः सकलधर्मास्तिकायादव्यतिरिक्तो धर्मास्तिकायस्यैकद्रव्यत्वात् । जीवे ं यः प्रदेशो जीवात्मको वा यः प्रदेशस्स तु नोजीवः सकलजीवास्तिकायैकदेशवृत्ति:, तथा स्कन्धे यः प्रदेशः स्कन्धात्मको वा यः प्रदेशस्स नोस्कन्धः, एकजीवाद्यात्मकस्य समस्तजीवाद्यस्तिकाये वृत्त्यसम्भवात्, जीवानां स्कन्धानाञ्चानन्तत्वादिति । समभिरूढस्तु धर्मे प्रदेश इति कुण्डे बदरमित्यादेरिव भेदबुद्धिप्रसङ्गात् सप्तमीसमासाभिलापकं वचनं न ब्रूते । यद्यपि घटे रूपमित्यादावभेदेऽपि सप्तमी दृष्टा तथापि भेदेऽभेदे च सप्तमीदर्शनेनात्र संशयलक्षणो दोषो दुर्वार एव, एवञ्चाभेदप्रकारकबोधार्थं धर्मश्चासौ प्रदेशश्चेति समानाधिकरणः कर्मधारय एवावश्यमाश्रयणीयः । तत्पुरुषेऽभेदबोधाय पदलक्षणाया आवश्यकवात् कर्मधारये चाभेदय संसर्गविधयैव लाभाल्लक्षणाभावेन लाघवादिति । एवम्भूतनयस्य मते तु देशप्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति । एते नयाः परस्परं निरपेक्षा दुर्नया:, परस्परसापेक्षास्तु सुनया इति । संख्यानं संख्या सैव प्रमाणं संख्याप्रमाणम्, संख्याशब्देन संख्याशंखयोर्द्वयोरपि ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात् एवञ्च तन्नामस्थापनाद्रव्यौपम्यपरिमाणज्ञानगणनाभाव-संख्याभेदादष्टविधम् अत्र संख्यास्शंखा वा यत्र घटन्ते ते तत्र योजनीयाः । ज्ञशरीरभव्यशरीरद्रव्यशंखपर्यन्तं पूर्ववत्, व्यतिरिक्तन्तु एकभविकबद्धायुष्काभिमुखनामगोत्रभेदतस्त्रिविधम्, इह यो जीवो मृत्वाऽनन्तरभवे शंखेउत्पत्स्यते स तत्राबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः स शंख उच्यते, यत्र भवे वर्त्तते स एवैको भवः शंखेषूत्पत्तेरन्तरेऽस्तीति कृत्वा । शंखप्रायोग्यबद्धायुर्बद्धायुष्कः, शंखभवप्राप्तस्य जन्तोः येऽवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखे जघन्यतस्समयेनोत्कृष्टतोऽन्त ६१
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy