________________
सूत्रार्थमुक्तावलिः
प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्त्तनेच्छोत्पादनरूपे उपदेशे द्वितीया, उपलक्षणमिदं करोतीत्यादावुपदेशमन्तरेणापि द्वितीयाया दर्शनात् एवमग्रेऽपि विवक्षितक्रियासाधकत करणे तृतीया, यस्मै सम्प्रदीयते तस्मिन् गवादिदानपात्रभूते सम्प्रदाने चतुर्थी, वियुज्यमानावधिभूतेऽपादाने पञ्चमी, स्वस्वामिभावादिसम्बन्धे षष्ठी, आधारार्थे सप्तमी, आमंत्रणार्थे संबोधनविभक्तिरिति एतद्विभक्त्यन्तं नामाप्यष्टविधम्, न च विभक्तिमन्तरेणान्यन्नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारा सङ्ग्रहणादष्टना । वीरशृङ्गाराद्भुतरौद्रव्रीडनकबीभत्सहास्यकरुणशान्तैरिति एते काव्येषूपनिबद्धा रसाः तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषाः, उत्तमप्रकृतिपुरुषचरितश्रवणादि हेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरः, कमनीयकामिनीविलोकनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, श्रुतं शिल्पं त्यागतप:शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः, रिपुजनमहारण्यादिदर्शनाद्युद्भवो विकृताध्यवसायरूपो रसो रौद्रः लज्जनीयवस्तुदर्शनादिप्रभवो मनःसंकोचनादिस्वरूपो व्रीडनकः, शुक्रशोणितोच्चारप्रस्रवणादिदर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो बीभत्सः, विकृतासम्बद्धपरवचनवेषालंकारादि- हास्यार्हपदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको हास्यः, प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रसः परमगुरुवचनश्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा शान्तो रसः । तथा चैतैर्नवभिर्नामभिर्विवक्षितस्य रसस्य सर्वस्याप्याभिधानान्नव नामेदमुच्यते । गौणनोगौणाऽऽदानपदप्रतिपक्षपदप्रधानतानादिसिद्धान्तनामवयवसंयोगप्रमाणैरिति, गुणैर्निष्पन्नं गौणं यथा क्षमणतपनादिपदानि, क्षमालक्षणतपनलक्षणादिगुणनिष्पन्नत्वात् सान्वर्थं पदमिति यावत्, यत्तु न गुणनिष्पन्नं तन्नोगौणं, अन्वर्थाननुयायीति यावत् यथा समुद्रसमुद्रादयः, समुद्रशब्दो हि कर्पूराद्याधारविशेषे वर्त्तते, स चाविद्यमानमुद्रः, समुद्रो जलराशौ वर्त्तते स चाङ्गुल्याभरणविशेषभूतमुद्रारहित इति । आदीयते तत्प्रथमतयोच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्पदञ्चादानपदं, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थस्तेन हेतुभूतेन किमपि नाम भवति, यथा आवन्तीत्याचारस्य पञ्चमाध्ययनं तत्र ह्यादावेव 'आवन्ती केयावन्ती' त्यालापको विद्यत इत्यादानपदेनैतन्नाम, एवमन्यदपि भावनीयम् । विवक्षितधर्मस्य विपरीतः प्रतिपक्षस्तद्वाचकं पदं प्रतिपक्षपदं यथा शृगाली अशिवाऽपि अमाङ्गलिकशब्दपरिहारार्थं शिवा भण्यते, नोगौणं प्रवृत्तिनिमित्ताभावमात्रेणोक्तं, प्रतिपक्षपदन्तु प्रतिपक्षधर्मवाचकत्वसापेक्षमिति विशेषः ।
४२