________________
अनुयोगद्वार
४३ प्रधानस्य भावः प्रधानता तया नाम किमपि भवति, यथा अशोकवृक्षबहुलमल्पाम्रादिवृक्षयुतं वनमशोकवनमिति, गुणव्याप्तपदार्थवाचकं गौणपदं, अनेकतद्घटितपदार्थवाचकमिदमिति विशेषः । अनादिकालादारभ्येदं वाच्यमिदं वाचकमिति वाच्यवाचकभावेन सिद्धो यः परिच्छेदः सोऽनादिसिद्धान्तः तेन निष्पन्नं नाम, यथा धर्मास्तिकायादिपदं एतत्पदवाच्योऽर्थः कदाऽप्यन्यथात्वं न भजते, गौणपदप्रतिपाद्यस्तु पदार्थः प्रदीपादिर्दीपकलिकादि परित्यजन्नपि प्रदीपादिपदवाच्यो भवतीति विशेषः । नाम पितृपितामहादेर्वाचकमभिधानं तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, पित्रादेर्यबन्धुदत्तादि नामासीत् पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यते । अवयविन एकदेशोऽवयवस्तेन नाम, शृङ्गी द्विपदं चतुष्पदमित्यादि, इदमवयवप्राधान्यतया प्रवर्त्तते गौणनाम तु सामान्यरूपतया प्रवर्तत इति भेदः । संयोगस्सम्बन्धः, स चतुर्विधो द्रव्यसंयोगः क्षेत्रसंयोगः कालसंयोगः भावसंयोगश्चेति, आद्यः सचित्ताचित्तमिश्रद्रव्यभेदात्रिविधः गोमानित्यादि सचित्तद्रव्यसंयोगेन, छत्रीत्यादि अचित्तद्रव्यसंयोगेन, हालिक इत्यादि मिश्रद्रव्यसंयोगेन, हलस्याचेतनत्वाबलीवर्दानां सचेतनत्वात् । क्षेत्रसंयोगो यथा भारतो भरते जातत्वान्निवासाद्वा, ऐरवतो हैमवत इत्यादि, सुषमसुषमजः सुषमज इत्यादि कालसंयोगः, भावः पर्यायः, स च द्विधा प्रशस्तो ज्ञानादिस्तेन ज्ञानी दर्शनीत्यादि, अप्रशस्तः क्रोधादिस्तेन क्रोधी मानीत्यादिरिति भावसंयोगः संयोगप्रधानतया प्रवृत्तत्वादस्य गौणाझेदः । नामस्थापनाद्रव्यभावभेदेन प्रमाणं चतुर्विधम्, जीवादीनां प्रमाणमिति यन्नाम तन्नामप्रमाणं, नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तून्याश्रित्य यस्य कस्यचिन्नामस्थापनं क्रियते सेह स्थापना, सैव प्रमाणं स्थापनाप्रमाणं तेन नाम भवति, यथा कार्तिकः कृत्तिकादत्त इत्यादि, कृत्तिकायां जातत्वात् कृत्तिकाभिर्दत्तत्वात्, एवं देवतादिप्रयुक्तान्यपि भाव्यानि । द्रव्यप्रमाणं धर्मास्तिकायादिनामानि षट्, तत्तद्रव्यरूपप्रमाणनिष्पन्नत्वात् । युक्तार्थत्वादिको गुणो भावः तेन वस्तुनः परिच्छिद्यमानत्वात्प्रमाणं तेन निष्पन्नं नाम भावप्रमाणम्, समासजतद्धितजधातुजनैरुक्तभेदात्तच्चतुर्विधम्, समासस्य सप्तविधत्वेन समासजं सप्तविधं दन्तोष्ठपुष्पित-कुटजकदम्बादिरूपम् । दोषिकस्सौत्रिक इत्यादि तद्धितजम् । भूरयं परस्मैपदी धातुः सत्तालक्षणार्थस्य वाचकत्वेन धातुजं नामेति, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं निरुक्तं तत्र भवं नैरुक्तम्, तच्च मह्यां शेते महिष इत्यादिरूपम् । एतैर्दशभिर्नामभिस्सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेति दिक् ॥१३।।