SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार ४१ अष्टाविंशतिभेदभिन्नस्य मोहनीयस्योपशमश्रेण्यामुपशमः प्रथमः, अपरश्च क्रोधादीनामुपशान्ततायां ये व्यपदेशास्ते सर्वे । क्षय एव क्षायिकः क्षयेण निर्वृत्तो वा क्षायिकः, ज्ञानावरणादिकर्मप्रकृतीनामष्टानां सोत्तरभेदानां सर्वथापगमः प्रथमः, अपरस्तु क्षयनिष्पन्नस्तत्फलरूपः । क्षयोपशमावेव क्षायोपशमिकः क्षयोपशमाभ्यां वा निवृत्तः क्षायोपशमिकः, केवलज्ञानप्रतिबन्धकानां चतुर्णा घातिकर्मणां उदयप्राप्तानां क्षयः, अनुदीर्णानामुपशमरूपश्च क्षायोपशमिक आद्यः, द्वितीयस्तु मतिज्ञानलब्धिश्रुतज्ञानलब्ध्यवधिज्ञानलब्धिमनःपर्यवज्ञानलब्धिमत्यज्ञानलब्ध्यादयः । तेन तेन रूपेण वस्तूनां भवनं परिणामस्स एव पारिणामिकस्तेन निर्वृत्तो वा, साधनादिरूपेण पारिणामिको भावो द्विविधाः, आद्यो जीर्णत्वशब्दाब्दवृक्षसंध्यागंधर्वनगरादयः, धर्माधर्माकाशादयो द्वितीयः । औदयिकादिभावानां व्यादीनां मिलनं सन्निपातः स एव तेन वा निर्वृत्तस्सानिपातिकः, यथा द्विकसंयोगे दश, औदयिकौपशमिक निष्पन्नः, औदयिकक्षायिकनिष्पन्नः, औदयिकक्षायोपशमिकनिष्पन्नः, औदयिक-परिणामिक निष्पन्नः, औपशमिकक्षायिकनिष्पन्नः, औपशमिकक्षायोपशमिकनिष्पन्नः, औपशमिकपारिणामिक निष्पन्नश्चेति, एवं क्षायिकक्षायोपशमिकनिष्पन्नः, क्षायिकपारिणामिकनिष्पन्नः, क्षायोपशमिक पारिणामिकनिष्पन्नश्चेति, एवं त्रिकसंयोगे दश, पञ्च चतुस्संयोगे, एकस्तु पञ्चकसंयोग इति षड्विंशतिरनुयोगद्वारे दृष्टव्यास्सर्वे । द्विकसंयोगेनवमभङ्गस्सिद्धस्य, परे नव द्विकयोगा न क्वचिज्जीवे सम्भवन्ति संसारिणो जघन्यतोऽपि गतिरौदयिकी क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येतत् त्रयस्य लाभात् किन्तु ते प्ररूपणामात्रमिति, एतैः षभिर्भावैर्धर्मास्तिकायादेः समस्तस्यापि वस्तुनस्सङ्ग्रहात् भावषट्कवाचकनामानि षडिति भावः ॥ षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादैरिति, नासाकण्ठोरस्तालुजिह्वादन्तैष्षड्भिर्जातस्स्वरः षड्जः, नाभिसमुत्थः कण्ठशीर्षसमाहतो वृषभवन्नर्दतीति ऋषभः, हृत्कण्ठसमाहतनाभिसमुत्थनानागन्धवहवायुजन्यो गान्धारः, उरोहृत्समाहतनाभि-समुत्थनाभिप्राप्तवायुजन्यो मध्यमः, नाभिसमुत्थो हृत्कण्ठशिरोहतवायुजनितः पञ्चमः, पूर्वोदतस्वराननुसन्ध्यन् स्वरो धैवतः, यस्मिन् स्वरा निषीदन्ति सर्वांश्चाभिभवति स निषादः, जीवाजीवनिश्रितस्वरविशेषा एते, मृदंगाद्यजीवेषु षड्जादिव्युत्पत्त्यर्थाभावेऽपि तत्सादृश्यात्तत्त्वमवगन्तव्यम्, तदेवमेतैः षड्जादिभिः सप्तभिर्नामभिस्सर्वस्यापि स्वरमण्डलस्याभिधानात्सप्त नामोच्यते । विभक्तिभिरिति, विभज्यते प्रकटीक्रियतेऽर्थ आभिरिति विभक्तयस्ताभिरिति विग्रहः नामविभक्तयो ग्राह्या नाख्यातविभक्तयः, ते चाष्टविधाः लिङ्गार्थमात्रप्रतिपादनरूपे निर्देशे
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy