________________
३९३
सूत्रकृतांग કાયા અને તેની ભૂમિને સંથારા કરવાનો સમય થાય ત્યારે ગુરૂની રજા લઈ સૂવે, સૂતી વખતે જાગતા હોય તેમ (જાગતાની જેમ) સુવે પણ ગાઢ નિદ્રાએ નહિ. આ પ્રમાણે આસન વગેરે પર રહેલા પૂર્વની જેમ સંકુચિત શરીરવાળો સ્વાધ્યાય, ધ્યાનપરાયણ સુસાધુ થવો જોઈએ. તે આ प्रभारी सुसाधुनी जियायुत शु३समा रहेनरी सुसाधु थाय छे. ॥४७||
तस्यैव फलान्तरमाहस जलवाहिन्यापि चोदितो न क्रोधकृत् ॥४८॥
स इति, यो गुरुकुलवासात् स्थानशयनासनसमितिगुप्तिषु प्राप्तप्रज्ञः प्रतिषिद्धसर्वप्रमादो गुरुपदेशादेवातिक्रान्तचित्तविप्लुतिरन्येषामपि तदपनयनसमर्थः स गुर्वन्तिके वसन् क्वचित् प्रमादस्खलितो यदि भवेत्तदा जलवाहिन्या दास्याऽपि क्षुद्रगृहस्थानामप्येतन्न युज्यते कर्तुं यद्भवताऽऽरब्धमिति चोदितो ममैवैतच्छ्रेय इत्येवम्मन्यमानो न क्रोधकारी भवति किमुत परतीथिकेन स्वतीथिकेन वयसा लघुना साधुना वयोऽधिकेन श्रुताधिकेन वा, किन्तु भवतैवंविधमसदाचरणं न विधेयं पूर्वर्षिभिरनुष्ठितमेवंविधमनुष्ठेयमिति प्रेरितस्तथा करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिश्रृणुयात्, मिथ्यादुष्कृतादिना वा निवर्तेत, प्रेरणमिदं ममैव श्रेयः, यत एतद्भयात् क्वचित्पुनः प्रमादं न कुर्याम्, न वाऽसदाचरणमनुतिष्ठेयमिति मन्येत, न तु कुप्येत्, दुर्वचने वा केनचिदभिहिते न क्रुध्येत्, चिन्तयेच्च 'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं का कोपः स्यादनृतं किं नु कोपेने'ति । एवञ्च यथा सजलजलधराच्छादितबहलान्धकारायां रात्रौ नायकोऽटव्यादौ स्वभ्यस्तप्रदेशोऽपि पन्थानगन्धकारावृतत्वात् स्वहस्तादिकमप्यपश्यन्न सम्यक् परिच्छिनत्ति, स एव च सूर्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते च दिक्चक्रे सम्यगाविर्भूते पाषाणदरिनिम्नोन्नतादिके विवक्षितदेशप्रापकं मार्गमभिव्यक्तचक्षुर्गुणदोषविचारणतः सम्यगवगच्छति तथैवाभिनवप्रव्रजितोऽपि सम्यगपरिज्ञातश्रुतचारीत्रधर्मा सूत्रार्थानभिज्ञत्वान्न धर्मं सम्यक् परिछिनत्ति स एव तु पश्चाद्गुरुकुलवासादभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणो यथावस्थितान् जीवादिपदार्थान् पश्यति, शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति तत्कोविदश्च मूलोत्तरगुणान् जानाति, अतो दिक्षु विदिक्षु च त्रसस्थावरेषु सर्वदा यतमानस्सन् संयमानुष्ठायी भवेत्, तेषु प्राणिषूपकारिष्वपकारिषु वा मनसापि प्रद्वेषं कदापि न गच्छेत्, न वाऽपकारिषु मनसाऽप्यमङ्गलं चिन्तयेत् । योगत्रिक करणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेत्, एवं शेषमहाव्रतान्युत्तरगुणांश्च समनुपालयेत् ॥४८॥