________________
सूत्रार्थमुक्तावलिः इतरोपक्रमस्य भेदानाह - इतरो नामस्थापनाद्रव्यक्षेत्रकालभावैष्षोढा ॥९॥
इतर इति, लोकप्रसिद्धोपक्रम इत्यर्थः, नामरूप उपक्रमो नामोपक्रमः यस्य कस्यचिज्जीवस्याजीवस्य वा तदुभयस्य वा जीवानां वाऽजीवानां वोभयेषां वा उपक्रम इति यन्नाम क्रियते स नामोपक्रमः, नाम्ना य उपक्रमः सोऽपि नामोपक्रमः, यस्य जीवादिवस्तुन उपक्रम इति नाम क्रियते तद्वस्तु नाममात्रेणोपक्रमरूपत्वान्नामोपक्रम उच्यते, एवमेव नामावश्यकमपि भाव्यम् । तत्र लोके यथा जीवस्य स्वपुत्रादेर्देवदत्तयज्ञदत्तादि नाम करोति तथा कश्चिदावश्यकमित्यपि नाम करोति स्वाभिप्रायवशात् । जीवस्यावासभूताचित्तबहुकोटराकीर्णवृक्षादिस्सोदेरावासभूतत्वेन व्यपदेशादजीवस्यावश्यकनाम भवति, आवासकावश्यकशब्दयोरेकार्थत्वात्, इष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, अग्नौ मूषकाणां संमूर्च्छनादतोऽसंख्येयानामग्निजीवानामावासकनाम भवति, पक्ष्यावासभूतनीडस्य बहुभिस्तृणैर्निष्पन्नत्वाद्वहूनामजीवानामावासकनाम भवति, गृहदी/काऽशोकवनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते तत्र जलवृक्षादयस्सचेतनाः इष्टकाकाष्टादयश्चाजीवास्तन्निष्पन्नमुभयमिति तस्यावासकनाम भवति, सम्पूर्णनगरादिकं राजादीनामावास इति कृत्वा तत्र बहूनां जीवाजीवोभयेषामावासकनाम भवतीति । क्रियाक्रियावतोरभेदोपचारादुपक्रमतत्कर्तृलौकिकसाध्वादेरभेदेन काष्टकर्मचित्रकर्माक्षवरराटकादावेको वाऽनेके वोपक्रमक्रिया वा लौकिक साध्वादयः सद्भावस्थापनयाऽसद्भावस्थापनया वा स्थाप्यन्ते स स्थापनोपक्रमः, एवं स्थापनावश्यकमपि भाव्यम् । सम्प्रत्युपक्रमोपयोगशून्या: साध्वादिदेहादयो द्रव्योपक्रमः, द्विविधस्सः, आगममाश्रित्य नोआगममाश्रित्य च । यस्य कस्यचिदुपक्रमस्वरूपं शिक्षितं गुरुभिः, अविस्मरणेन चेतसि स्थितं परावर्तनया शीघ्रोपस्थितिकत्वाज्जितं अहीनाक्षरानत्यक्षरादिरूपतया स्थितं स जीवस्तदुपयोगे यदा न वर्तते तदा आगममाश्रित्य द्रव्योपक्रम उच्यते, नन्वागमतोऽस्य कथं द्रव्योपक्रमत्वम्, आगमस्य ज्ञानरूपत्वेन भावत्वादिति चेन्न, आगमकारणभूतस्यात्मनस्तदधिष्ठितस्य देहस्योपयोगशून्यतदुच्चारणरूपशब्दस्यैव चात्र सत्त्वेनागमस्य साक्षादसत्त्वात्, कारणे कार्योपचाराद्धि तेषामागमरूपत्वम्, द्रव्यञ्च विवक्षितभावस्य कारणं भवतीत्यागममाश्रित्य द्रव्योपक्रम उक्त इति । नोआगमतो द्रव्योपक्रमस्त्रिविध: ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदात्, ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदास्सर्वथाऽऽगमाभावमाश्रित्य द्रव्योपक्रमः, तत्रोपक्रमपदाभिधेयं जानानस्य यच्छरीरं जीवन परित्यक्तं