________________
अनुयोगद्वार
३३
तदतीतोपक्रमभावस्य कारणत्वात्तदानीं सर्वथाऽऽगमरहितत्वान्नोआगमतो ज्ञशरीरद्रव्योपक्रमः । यद्यपि व्यपगतचेतनस्य शरीरस्य न द्रव्योपक्रमत्वम्, उपक्रमकारणस्यैव द्रव्योपक्रमत्वात्, कारणञ्च चेतनाधिष्ठितमेव भवति, अन्यथाऽतिप्रसङ्गात्तथापि प्रक्षिप्तापसारितघृतस्य घटस्य घृतघट इति व्यपदेश इवातीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतोपक्रमकारणत्वपर्यायमपेक्ष्य द्रव्योपक्रमत्वमस्योच्यत इत्यदोषः । विवक्षितपर्याययोग्यो भव्यः, आगामिकाले हि जिनोपदिष्टेन भावेनोपक्रम इत्येतत्पदमसौ शिक्षिष्यते तज्जीवाधिष्ठितं शरीरं तदानीं तत्र वपुष्यागमाभावेन नोआगमतो भव्यशरीरद्रव्योपक्रमः । यद्यप्यत्र शरीरे आगमाभावेन तत्कारणत्वमपि नास्ति, अतिप्रसङ्गेन कार्याभावे वस्तुनः कारणत्वासम्भवस्तथापि भविष्यत्यपि घृताधारत्वपर्याये घटे घृतघटोऽयमिति व्यपदेशवदिदानीमपि भविष्यत्पर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्या तथोच्यत इति, एवं द्रव्यावश्यकमपि भाव्यम् । ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकन्तु लौकिककुप्रावचनि-कलोकोत्तरिकरूपभेदत्रयवत्, अनुयोगद्वारादिभ्यस्तत्स्वरूपमवसेयम् । तदुभयव्यतिरिक्तद्रव्योपक्रमः सचित्ताचित्तमिश्रद्रव्यविषयभेदात् त्रिविधः, द्विपदचतुष्पदापदभेदत आद्योऽपि भेदस्त्रिविधः, नटनर्तकादीनां द्विपदानां घृताधुपयोगेन यद्बलवर्णादिकरणं सोऽवस्थितस्यैव वस्तुनो गुणविशेषाधानरूपत्वात् परिकर्मविषयस्सचित्तद्रव्योपक्रमः । यस्त्वेषां खड्गादिभिर्नाश एव सम्पाद्यते तदा वस्तुनाशविषयस्सचित्तद्रव्योपक्रमः । अश्वाादिचतुष्पदानां शिक्षागुणविशेषकरणं परिकर्मविषयः, खड्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशविषयः सचित्तद्रव्योपक्रमः । वृक्षादीनामपदानां वृक्षायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनं तत्फलानाञ्च गर्त्तप्रक्षेपकोद्रवपलाल-स्थगनादिनाऽऽश्वेव पाकादिकरणं परिकर्मविषयः शस्त्रादिभिश्च मूलत एव विनाशनं वस्तुनाशविषयस्सचित्तद्रव्योपक्रमः । खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं सर्वथा विनाशकरणञ्चाचित्तद्रव्योपक्रमः । अश्वादीनां कुङ्कुमादिभि-मण्डितानां स्थासकादिभिर्विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्गादिभिर्विनाशकरणं वा स मिश्रद्रव्योपक्रमः, अश्वादीनां सचेतनत्वात्स्थासकादीनामचेतनत्वाच्च । हलकुलिशादिभिः क्षेत्राणि यद्बीजवपनादियोग्यतामानीयन्ते स परिकर्मविषयः क्षेत्रोपक्रमः तान्येव यदा विनाश्यन्ते स वस्तुनाशविषयः क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु हि क्षेत्रेषु बीजानामप्ररोहणाद्विनष्टानि क्षेत्राणीति व्यपदिश्यन्ते, न चायं द्रव्योपक्रम एव क्षेत्रादिगतपृथिव्यादिद्रव्याणामेव परिकर्मविनाशकरणादिति वाच्यम्, क्षेत्रस्याकाश-रूपत्वेनामूर्तत्वात्तस्य मुख्यतयोपक्रमासम्भवेन तदाधेयद्रव्योपक्रमस्यैव तत्रो