________________
सूत्रकृतांग
३७३
ધર્મને વિચારી, બાહ્ય અત્યંતર સંગ એટલે પરિગ્રહ છોડી મુક્તિ જવાના કારણરૂપ સંયમના અનુષ્ઠાનને આચરે, ઔદારિક શરીરને પાસત્થા વગેરેના સંગને છોડનારો ઘોર તપ વડે, કર્મની નિર્જરાને ચિંતવતો કર્મને પાતળા કરે. એકત્વ ભાવનાથી ભાવિત થયેલા ચિત્તવાળો શરીર વગેરેમાં નિઃસ્પૃહી મોક્ષમાં જ જવાની એક પ્રબળ ઈચ્છાવાળા, સંયમમાં અરતિ અને અસંયમમાં રતિને (થી) ભાવિત થઈ ભાવસમાધિને પામે, શીત-ઉષ્ણ વગેરે પરિષદોથી ગભરાયા વગર નિર્જરાને માટે સહન કરે. વચનગુપ્તિવાળો, શુદ્ધ લશ્યાને સ્વીકારી અશુદ્ધ (લેશ્યા)ને છોડી, સંયમના અનુષ્ઠાનમાં ગતિ કરે. જે આ પ્રમાણે હોય તે સાધુ-સમાધિવાળો નિદાન વગરનો ભાવ मिक्षु५ थाय छे. मे प्रभारी ।।3८।। .
समाधिवद्भावमार्गोऽपीति मार्गमभिधत्तेप्रशस्तभावमार्गो भवसमुत्तारकः ॥३९॥
प्रशस्तभावमार्ग इति, भावमार्गो हि द्विविधः; प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो मिथ्यात्वाविरत्यज्ञानानि दुर्गतिफलानि, प्रशस्तश्च सम्यग्दर्शनज्ञानचारित्ररूपः सुगतिफलप्रदः, दुर्गतिफलमार्गवादिनां त्रीणि त्रिषष्ट्यधिकानि शतानि मार्गा भवन्ति, मिथ्यात्वोपहतदृष्टिभिविपरीततया जीवादिपदार्थनिरूपणात्, सम्यग्दर्शनं ज्ञानं चारित्रञ्चेति त्रिविधोऽपि भावमार्गः प्रशस्तफलः, तीर्थकरगणधरादिभिर्यथावस्थितवस्तुनिरूपणेन समाचीर्णत्वात्, ये केचनस्वयूथ्याः पार्श्वस्थादयोऽपुष्टधर्माणश्शीतलविहारिण ऋद्धिरससातगौरवेण गुरुकर्माण आधाकर्माधुपभोगात् षड्जीवनिकायव्यापादनरता अपरेभ्यो मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माधुपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्तः कुतीर्थिकमार्गाश्रिता एव । तत्र प्रशस्तभावमार्गो मोक्षगमनं प्रति प्रगुणो यथावस्थितपदार्थस्वरूपनिरूपणात् सामान्यविशेषनित्यानित्यादिस्याद्वादाश्रयणात्, तं ज्ञानदर्शनतपश्चारित्रात्मकं मार्गमवाप्य जीवः समग्रसामग्रीकः संसारसमुद्रं दुस्तरं तरति, अतः स मार्गो भवसमुत्तारकः, स च मार्गो जिनोक्त एवाशेषैकान्तकौटिल्यरहितो निर्मल: पूर्वापरव्याहतिदोषापगमात्, सावद्यानुष्ठानोपदेशाभावाच्च, तं महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिकालेऽनन्तास्सत्त्वा भवं तीर्णवन्तः, साम्प्रतमपि संख्येयास्तरन्ति, अपर्यवसानात्मकेऽनागते काले चानन्तास्तरिष्यन्ति । तत्र सूक्ष्मबादरपर्याप्तापर्याप्तभेदान् पृथिवीकायिकायेकेन्द्रियान् पर्याप्तापर्याप्तभेदान् द्वित्रिचतुरिन्द्रियान् संश्यसंज्ञिपर्याप्तकापर्याप्तक भेदान् पञ्चेन्द्रियांश्च सद्युक्तिभिरवगम्यानिष्टदुःखान् सुखैषिणो न हिंस्यात्, एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्त्तनम्, एतावतैव परिज्ञानेन मुमुक्षोविवक्षितकार्यपरिसमाप्तेः, असावेव