SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३७४ सूत्रार्थमुक्तावलिः परमार्थतो ज्ञाता य: प्राणातिपातनिवृत्तिं सम्यक् क्रियते, एवम्भूताद्विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्विभेति, प्राणातिपातनिवृत्तेः परेषामात्मनश्च शान्तिहेतुत्वात्, अत एवासावार्त्तरौद्रध्यानाभावाच्छान्तो निवृतश्च भवति, तस्मान्मनसा वाचा कायेन वा यावज्जीवं केनापि प्राणिना साकं विरोधं न कुर्यात्, आहारोपधिशय्यादिके एषणासमित: परीषहैरक्षुब्धः संयमं चरेत् । कूपखननसत्रदानादिप्रवृत्तिः पुण्यमपुण्यं वेति राजादिभिः पृष्टो मत्वोभयथापि महाभयं नानुमन्येत, अन्नपानदानार्थमाहारमुदकं च पचनपाचनादिक्रियया कूपखननादिकया चोपकल्पयेत्, तत्र त्रसाः स्थावराश्च व्यापाद्यन्तेऽतो भवदनुष्ठाने पुण्यमिति न वदेत्, अन्नपानादिकं धर्मबुद्धया प्राण्युपमर्ददोषदुष्टं निष्पादयन्त्यतो नास्ति पुण्यमित्यपि न ब्रूयात्, तन्निषेधे हि आहारपानार्थिनामन्तरायो भवेत्, तदभावेन तु ते पीड्येरन्, किन्तु मौनं समाश्रयणीयम्, निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षुणामधिकार एव नास्तीति ब्रूयान्, अनवद्यभाषिणां निर्वाणप्राप्तेः । इयमेव च सर्वविरत्याख्यो मोक्षगमनैकहेतुरकारणवत्सलेन परहितैकरतेन भगवता तीर्थकरेण परतीर्थिकैरनाख्यातपूर्वः प्रवेदितः, तमिमं शुद्धं परिपूर्णं धर्ममजानाना अविवेकिनो धर्मज्ञंमन्याः परतीर्थिकाः सम्यग्दर्शनाद्दूरे वर्त्तन्ते, जीवाजीवपरिज्ञानाभावेन शीतोदकौद्देशिकाद्याहाराभ्यवहरणात्, संघभक्तादिक्रियया सातद्धिरसगौरवावाप्त्यर्थमार्त्तध्यानवत्त्वात्च्त्व, न ह्येहिकसुखैषिणां दासदासीधनधान्यादिपरिग्रहवतां धर्मध्यानं भवति, ते च महाभयं संसारं परिभ्रमन्ति, तस्मादकषायी साधुः प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनमस्खलितमूलोत्तरगुणसम्पूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन चारित्रं च वर्द्धयेत्, ततश्च प्रशस्तभावमार्गे भवं ध्रुवं समुत्तरति ॥३९॥ સમાધિની જેમ ભાવમાર્ગ પણ છે. એ પ્રમાણે માર્ગને કહે છે. સૂત્રાર્થ :- પ્રશસ્ત ભાવમાર્ગ તે છે જે ભવથી સંસારથી સારી રીતે તારી દે છે. टीडार्थ :- भावमार्ग जे प्रहारनो छे. (१) प्रशस्त (२) अप्रशस्त तेमां अप्रशस्त मिथ्यात्व અવિરતિ, અજ્ઞાન જે દુર્ગતિના ફળરૂપ છે. પ્રશસ્તભાવ માર્ગ સમ્યગ્ દર્શનજ્ઞાનચારિત્રરૂપ છે, જે સુગતિરૂપ ફળને આપનારો છે. દુર્ગતિ ફળ માર્ગવાદીઓના ત્રણસોત્રેસઠ (૩૬૩) માર્ગો થાય છે. મિથ્યાત્વથી હણાયેલા દૃષ્ટિવાળાઓ વડે વિપરીતપણે જીવ વગેરે પદાર્થોની પ્રરૂપણા હોવાથી સમ્યગ્દર્શન, જ્ઞાન, ચારિત્ર એમ ત્રણ પ્રકારે પ્રશમફળને આપનારો ભાવમાર્ગ છે. તીર્થંકર ગણધર વડે યથાવસ્થિત વસ્તુ નિરૂપણ કરવાથી અને આચરવાથી ભાવમાર્ગ છે. જે કેટલાક પોતાના જુથના પાર્શ્વસ્થાદિ અપુષ્ટ ધર્મવાળા એટલે પુષ્ટ કારણ વગર શિથિલવિહારીઓ ઋદ્ધિ,
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy