SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांग ३६५ सर्वविरतिप्रतिपत्तिकाले सादित्वात्, सिद्धाद्यवस्थायां तदभावात्सान्तत्वात्, बालपण्डितवीर्यन्तु देशविरतिसद्भावकाले सादि, सर्वविरतिसद्भावे तभ्रंशे वा सपर्यवसानम्, बालवीर्यन्त्वविरतिलक्षणमभव्यानामनाद्यपर्यवसितम्, भव्यानान्त्वनादिसपर्यवसितं सादिसपर्यवसितञ्चात्र विरतिभ्रंशात्सादिता, पुनर्जधन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्धपुद्गलपरावर्ताद्विरतिसद्भावात्सान्तता, साद्यपर्यवसितस्य चतुर्थभङ्गस्याभाव एव । बालेति, द्विविधं वीर्यं बालपण्डितभेदात्, क्रियानुष्ठानं वीर्यमित्येके, कारणे कार्योपचारादष्टप्रकारं कर्म वीर्यमित्यन्ये, औदयिक भावनिष्पन्नं कर्म, औदयिकोऽपि च भावः कर्मोदयनिष्पन्नो, जीवस्य वीर्यान्तरायक्षयजनितं सहजं वीर्यं चारित्रमोहनीयोपशमक्षयोपशमजनितञ्च, आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितबालपण्डितवीर्याभ्यां वीर्यं व्यवस्थितमिति सूत्रार्थः, एताभ्यामेव वीर्याभ्यां मयों नानाविधक्रियासु प्रवर्त्तमानो वीर्यवानयमिति व्यपदिश्यते, तदावरणकर्मक्षयाच्चानन्तबलयुक्तोऽयमिति व्यपदिश्यते । प्रमादोपहतस्य कर्म बध्यते सकर्मणश्च यत्क्रियानुष्ठानं तद्बालवीर्यम्, अप्रमत्तस्य कर्माभावो भवति, एवम्विधस्य च पण्डितवीर्य भवति, अभव्यानां बालवीर्यमनाद्यपर्यवसितं भव्यानामनादिसपर्यवसितं सादिसपर्यवसितं वा, पण्डितवीर्यन्तु सादिसपर्यवसितमेव । तत्र खङ्गादिप्रहरणलक्षणशस्त्रस्य धनुर्वेदायुर्वेदादिशास्त्रादेरभ्यसनं बालवीर्यं पापोपादानात्, सातगौरवगृद्धा हि तच्छिक्षन्ते शिक्षितं सत् प्राणिनां विनाशाय भवति, तत्र जीवव्यापादनायाऽऽलीढप्रत्यालीढादिस्थानविधानात्, क्षयिणे लावकरसस्याभयारिष्टाख्यस्य मद्यविशेषस्य च दातव्यतयोक्तेः, चौरादेः शूलारोपणादिदण्डविधानात् पशुहिंसनयागादिविधानाच्च, तदेवं तदभ्यसनात्तत्तत्कर्म मनसा वाचा कायेन कृतकारितानुमतिभिश्च कुर्वन्तो जन्मशतानुबन्धिवैरानुषङ्गिणोऽनन्तसंसारभाजो भवन्ति, भव्यस्तु अल्पकषायस्सम्यग्दर्शनज्ञानचारित्रात्मकं श्रुतचारित्रात्मकं वा धर्म तीर्थकरोपदिष्टं गृहीत्वा मोक्षाय ध्यानाध्ययनादावुद्यमं विधत्ते, यदेतस्य वीर्यं तत्पण्डितवीर्यम्, बालवीर्यमतीतानागतानन्तभवग्रहणेषु दुःखमावासयति, यथा यथा च स नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धत इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्यैतद्वीर्यवतो धर्मध्यानं प्रवर्तत इत्येवं धर्मभावनादिभिर्भावितो विशिष्टाभिनिबोधिक ज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा धर्मसारं विज्ञायान्येभ्यो वा श्रुत्वा चारित्रं प्रतिपद्यते तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थमुत्तरोत्तरगुणसम्पत्तये समुपस्थितो वर्धमानपरिणामोऽनगारो निराकृतसावद्यानुष्ठानोऽकर्मा भवति, तस्माद्वालपण्डितवीर्या जीवाः संसारमोक्षभाज इति ॥३६।।
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy