________________
३६४
सूत्रार्थमुक्तावलिः सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तीर्थकृतामनुत्तरोपपातिकसुरमनः-पर्यवज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात्, अनुत्तरोपपातिकसुराणां सर्वव्यापारस्यैव मनसा निष्पादनात् । सम्भाव्ये तु यो यमर्थं पटुमतिना प्रोच्यमानं न शक्नोति परिणमयितुं साम्प्रतं संभाव्यते त्वेष परिकर्म्यमाणश्शक्ष्यत्यमुमर्थं परिणमयितुमिति । वाग्वीर्यमपि द्विविधं सम्भवे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजनविहारिणी वाक् सर्वस्वस्वभाषानुगता च, तथाऽन्येषामपि क्षीरमध्वास्रवादिलब्धिमतां वाचः सौभाग्यमिति हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्यम्, तथा सम्भाव्याम् एनं श्रावकदारकमकृतमुखसंस्कारमप्यक्षरेषु पटुं यथावदभिलप्तव्येष्विति । तथा सम्भाव्याम्शुकसारिकादीनां वाचो मानुषभाषापरिणामम्, कायवीर्यमपि द्विविधं सम्भवे सम्भाव्ये च सम्भवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्बाहुबलादिकायबलं तद्यथा कोटिशिला त्रिपृष्टेन वासुदेवेन वामकरतलेनोद्धृता, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुं मेरुं दण्डवद्गृहीत्वा वसुधां छत्रकवद्ध मिति, सम्भाव्यते चान्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमित्यादि । इन्द्रियबलमपि श्रोत्रेन्द्रियादिस्वविषयग्रहणसमर्थं पञ्चधा, एकैकं द्विविधं सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति । सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वाऽर्थग्रहणासमर्थमपीन्द्रियं सद्यथोक्तदोषोपशमे सति सम्भाव्यते विषयग्रहणायेति । आन्तरशक्तिजनितमाध्यात्मिकं वीर्यमनेकधा, उद्यमधृतिधीरताशौंडीर्यक्षमागाम्भीर्योपयोगतपस्संयमादिभेदात्, उद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, धृतिः संयमे स्थैर्यम्, धीरता परीषहोपसर्गाक्षोभ्यता, शौण्डीर्यं त्यागसम्पन्नता, आपद्यविषण्णता, विषमे कर्त्तव्ये समुपस्थितेऽविषण्णता वा, क्षमा पराक्रुश्यमानस्यापि क्षोभानवाप्तिः, गाम्भीर्यं परीषहोपसगैरधृष्यत्वं, मनश्चमत्कारकारिण्यपि स्वानुष्ठानेऽनौद्धत्यम्, उपयोगवीर्यञ्च साकारानाकारभेदवत्, साकारोपयोगोऽष्टधा, अनाकारोपयोगश्चतुर्धा, योगवीर्यं मनोवाक्कायभेदतस्त्रिविधम्, अकुशलमनोनिरोधः कुशलमनसः प्रवर्तनं मनोवीर्यम्, अपुनरुक्त निरवद्यभाषणं वाग्वीर्यम्, समाहितपाणिपादस्य कूर्मवदवस्थानं कायवीर्यम्, अग्लानतया तपोविधानं तपोवीर्यम्, एकत्वाद्यध्यवसायिनः सप्तदशविधसंयमप्रवृत्तिः संयमवीर्यमित्यादिरूपं भाववीर्यम् । सर्वमप्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधम्, अनगाराणां पण्डितवीर्यम्, बालपण्डितवीर्यन्त्वगाराणाम्, तत्र यतीनां पण्डितवीर्यं सादिसपर्यवसितम्,