________________
आचारांगसूत्र
२३५
પાળ્યા પછી સંલેખનાપૂર્વક સમયના પર્યાયરૂપ ભક્તપરિજ્ઞાદિ મરણ સારૂં હોવા છતાં પણ આવા અવસરે વૈહાનસાદિ મરણ પણ ગુણરૂપ થાય છે. કારણ કે આવું મરણ પણ કાલના પર્યાય (બદલવારૂપ) રૂપ છે. ઘણા કાલે જે કર્મનો ક્ષય તે જ કર્મનો અલ્પ સમયમાં પણ ક્ષય થાય છે. આ વૈહાનસાદિ મરણ વડે અનંતા આત્મા સિદ્ધ થાય છે. અનંતા આત્મા સિદ્ધ થશે. આથી જ મોહરહિત મુનિઓને આ (વૈહાનસાદિ) કર્તવ્યતાથી આશ્રય કરવા લાયક છે. તેમજ અપાયરહિત होवाथी हितारी पा छे. ॥४५॥
अथ भक्तप्रत्याख्यानादिमरणविशेषानाह
कृताभिग्रहविशेषोऽशक्तौ भक्तप्रत्याख्यानादिकं कुर्यात् ॥ ४६ ॥
कृतेति, वस्त्रत्रयेण व्यवस्थितः स्थविरकल्पिको जिनकल्पिको वा भवेत्, पात्रतृतीयेन कल्पद्वयेन संयमे व्यवस्थितस्तु नियमेन जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमो भवेत् तत्र यस्य भिक्षोरेवंविधः प्रकल्पो भवति यथा विकृष्टतपसा कर्त्तव्याशक्तो वातादिक्षोभेण वा यदा ग्लानस्तदाऽनुक्तैरुचितकर्त्तव्यसमर्थैस्तव वयं वैयावृत्त्यं यथोचितं कुर्म इति समुपस्थितैरनुपारिहारिककल्पस्थितादिभिः क्रियमाणं वैयावृत्त्यमभिकाङ्क्षयिष्यामीति स तमाचारमनुपालयन् कुतश्चिद्ग्लायमानोऽपि प्रतिज्ञालोपमकृत्वा समाहितान्त:करणवृत्तिः शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात् । यश्च धृतिसंहननादि - बलोपेतो लघुकर्मा सपात्रैकवस्त्रधारी न मे संसारे कश्चिद्वस्तुत उपकारकर्तृत्वेनास्ति नाहमप्यन्यस्य दुःखापनयनसमर्थः, प्राणिनां स्वकृतकर्मफलेश्वरत्वात्, न वा नरकादिदुःखत्राणतयाऽऽत्मनश्शरण्यो द्वितीयोऽस्तीत्यतो यद्रोगादिकमुपतापकारणमापद्यते तन्मयैव कृतमपरशरणनिरपेक्षो मयैव सोढव्यमित्येकत्वभावनाध्यवसाय्याहारोपकरणलाघवं गतोऽपचितमांसशोणितो ग्लानो भवति स रूक्षतपस्सन्तप्तं शरीरं यथेष्टकालावश्यकक्रियाव्यापारासमर्थं मन्यमानश्चतुर्थषष्ठाचाम्लादिकयाऽऽनुपूर्व्याऽऽहारं संक्षिपेत्, नात्र द्वादशसंवत्सरसंलेखनानुपूर्वी ग्राह्या, ग्लानस्य तावन्मात्रकालस्थितेरभावात्, अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमाहारं निरुन्ध्यात् । षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्त्य कषायान् प्रतनून् कृत्वा नियमितकायव्यापारः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलबति रोगावेगेऽभ्युद्यतमरणोद्यमं विधाय शरीरसन्तापरहितः स्थण्डिलविशेषे तृणान्यास्तीर्य पुर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः स्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधा - हारनियममित्वरमरणं कुर्यात् । यस्तु प्रतिमाप्रतिपन्नोऽहमन्येषां प्रतिमाप्रतिपन्ना नामेव