________________
आचारांगसूत्र
२२५
वेदना भवन्ति । तदेवं चतुर्गतिपतिताः संसारिणः कर्मविपाकमनेकविधमनुभवन्ति तत्सावद्यानुष्ठानानां महाभयं विज्ञाय तदुन्मूलनाय यत्नो विधेयः । ये तु धर्मश्रवणयोग्यावस्था धर्मकथादिकमासाद्य सदसद्विवेकं जानाना अधीताचारादिशास्त्रास्तदर्थभावनया परिवृद्धचरणपरिणामास्ते मुनयो यथाक्रमं शैक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिका भवन्ति । तस्माद्विदितवेद्यः संसारपराङ्मुखो महापुरुषमार्गानुयायी नानाविधं करुणाजनकं मातापित्रादिस्वजनविहितमाक्रन्दनं निशम्यापि महादुःखागारे गृहावासे रतिं नैव विदध्यात् । न वा दुर्लभं चरणञ्चावाप्य यौगपद्येन क्रमेण वोदीर्णान् दुःसोढान् परीषहाननधिसहमानो भोगार्थं वा धर्मोपकरणपरित्यागेन देशविरत्यादिभावावलम्बनं कुर्यात्, भोगार्थं त्यागेऽप्यन्तरायोदयात्तत्क्षणमेवान्तर्मुहूर्तादिना कालेन वा शरीरवियोगसम्भवात्, ततश्च पुनरनन्तेनापि कालेन पञ्चेन्द्रियत्वप्राप्तिर्दुर्लभा भवति, अतोऽशुद्धपरिणामो भूत्वा धर्मोपकरणसमन्वितोऽनुकूलप्रतिकूलपरीषहानुदीर्णान् विज्ञाय भावनाभावितस्सम्यक्तितिक्षमाणः परिव्रजेत्, कर्म च मूलोत्तरप्रकृतिभेदेन विज्ञाय तद्भूननसमर्थतपोविशेषेण क्षपयेत्, तदपि कर्मधूननं नोपकरणशरीरधूननमन्तरेण भवति, उपकरणञ्च धर्मोपकरणातिरिक्तं ग्राह्यम्, धर्मोपकरणभूतवस्त्रादेर्जीर्णतादिसम्भवे तत्सन्धानादावार्तध्यानरहितो भविष्यत्ताध्यवसायी कदाचित्परुषतृणशीतोष्णादिस्पर्शप्राप्तावपि द्रव्यत उपकरणलाघवं भावतः कर्मलाघवं बुध्यमानः सम्यगधिसहेत, तदेवमधिसहमानः कर्मक्षपणायोत्थितः संसारकारणरागद्वेषकषायसन्ततः क्षान्त्यादिना क्षयं कृत्वा समतां भावयेत्, यथा जिनकल्पिकः कश्चिदेकं कल्पं द्वौ वा त्रीन् बिभर्ति, स्थविरकल्पिको वा मासार्धमासक्षपकस्तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, तदेवंविधो मुनिः सर्वसङ्गेभ्यो मुक्तः सर्वसावद्यानुष्ठानेभ्यो विरतोऽनुक्षणं विशुद्धचरणपरिणामितया विष्कंभितमोहनीयोदयत्वाल्लघुकर्मा प्रतिक्षणमुत्तरोत्तरं संयमस्थानकण्डकं सन्दधानो यथाख्यातचारित्राभिमुखोऽरत्यभिभवानास्पदः स्वस्य परस्य च त्राता भवति, यथा हि सांयात्रिका उदधेरुत्तितीर्षव आसन्दीनं सिंहलादिरूपमवाप्याश्वसन्ति, तथा भावसन्धानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वसन्ति, यथा वा आदित्यादयः स्थपुटाद्यावेदनतो हेयोपादेयहानोपादानवतां सहकारिणो भवन्ति तथा ज्ञानसन्धानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकरोति । तथा च भगवदुपदिष्टं धर्म कुतर्काद्यप्रधृष्यं प्रति भावसन्धानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकांक्षन्तः