________________
२२४
सूत्रार्थमुक्तावलिः तदेवं लोके सारभूतौ संयममोक्षावभिधाय कर्मधूननोपायं सर्वज्ञप्रतिपादितमाहस कर्मगुरूणां वेदनाः प्रोच्योत्थितानां कर्मधूननमाचष्टे ॥ ४३ ॥
स इति, यो ह्यकर्मा विदितनिखिलवेद्यो भवोपग्राहिकर्मसद्भावेन मनुष्यभावव्यवस्थितोऽष्टविधकर्मधूननमावेदयति, न तु तथा यथा शाक्यानां कुड्यादिभ्यो वैशेषिकाणाञ्चोलूक भावेनोपदेशः । स एवेत्यनुक्तत्वादतीन्द्रियज्ञानिनो निखिलप्रकारैर्विज्ञातजीवादिपदार्थाः श्रुतकेवलिनो वा धर्ममाचक्षत इत्यपि सूचितम् । कानुद्दिश्येत्यत्रोक्तमुत्थितानामिति, धर्माचरणार्थं समुत्थितानामित्यर्थः, यद्वा द्रव्यतो भावतश्चोत्थिता भवन्ति, द्रव्यतश्शरीरेण भावतो ज्ञानादिभिः, तत्र समवसरणस्थाः स्त्रिय उभयथा उत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानान्तु धर्ममावेदयति, उत्तिष्ठासूनाञ्च देवानां तिरश्चाञ्च, येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे । किं कृत्वा, कर्मगुरूणां वेदनाः प्रोच्य, साक्षाद्भगवति सकलसंशयापहर्तरि धर्ममावेदयति सति ये प्रबलमोहनीयोदयात् संयमादवसीदन्ति ते कर्मगुरवः, लघुकर्माणस्तु तीर्थकृदुक्तं धर्मं प्रतिपद्य तदनुष्ठानायोद्यन्ते नापरे, कर्मगुरवो हि धर्मानुष्ठानसमर्थमनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वाद्युपलभ्यापि मोहोदयाच्छब्दादिविषयेष्वासक्ता निखिलदुःखनिकेतनमगारवासं शारीरमानसदुःखसन्तप्ता अपि राजकृतोपद्रवसहा अपि हुताशनदग्धसर्वस्वा अपि न परित्यजन्ति तत्रैवावस्थिताः प्राप्ते दुःखे हा तात, हा मातः, हा दैव इत्येवं करुणं रुदन्तोऽपि दुःखविधूननदक्षं मोक्षसाधनं वा संयमानुष्ठानं न गृह्णन्ति, तथा नानाव्याध्याद्युपसृष्टाः परत्रापि नरकादिषु महतीवेदना अनुभवन्ति, गतयो हि नारक तिर्यड्नरामरलक्षणाश्चतस्रः, तत्र नरकगतौ चतस्रो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः, वेदनाः परमाधार्मिकपरस्परोदीरितश्रोत्रच्छेदननेत्रनिष्कासनहस्तपादोत्पाटनहृदयदहनाद्यनुक्षणदारुणदुःखानां वाचामगोचरा नारकाणां भवन्ति, तिर्यग्गतौ पृथिवीकायादिजन्तूनां स्वपरशस्त्रप्रयुक्ता महत्यः शीतोष्णादिका वेदना भवन्ति । मनुष्यगतौ वेदना ईदृशा यथा “दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः रे संसारे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ।। बाल्यात्प्रभृति च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः । शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः ॥ क्षुत्तृड्डिमोष्णानिलशीतदाहदारिद्रयशोकप्रियविप्रयोगैः । दौर्भाग्यमानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतंत्रः ॥" इत्यादि । देवगतावपि च्यवनवियोगक्रोधेादिप्रयुक्ता नानाविधा