SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२६ सूत्रार्थमुक्तावलिः सम्यगुत्थिता भवन्ति । ये च तथा विज्ञानाभावान्नाद्यापि सम्यगुत्थितास्ते यावद्विवेकिनो भवन्ति तावदाचार्यादिभिस्तत्परिपालनया सदुपदेशदानेन परिकर्मितमतयो विधेयाः, यथाविध्याचारादिकं तानध्यपयेच्चारित्रञ्च ग्राहयेत् तत्र केचित् क्षुद्रकाः शिष्या आचार्यादिभिः श्रुतज्ञानं लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयादपनीतसदुपदेशा उत्कटमदत्वाज्ज्ञानादित्रयोपशमं त्यक्त्वा ज्ञानलवगर्विताः प्रसङ्गे मादृश एव कश्चिच्छब्दार्थनिर्णयाय समर्थो न सर्व इति, आचार्योऽपि बुद्धिविकलः किजानातीति च स्वौद्धत्यमाविष्कुर्वति, अपरे तु ब्रह्मचर्ये उषित्वा आचारार्थानुष्ठायिनोऽपि तामेव भगवदाज्ञां न बहुमन्यमानाः सातगौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते ते गौरवत्रिकान्यतमदोषाज्ज्ञानादिके मोक्षमार्गे सम्यगवर्तमानाः कामैर्दग्धाः सदसद्विवेकभ्रष्टाः सम्यग्दर्शनविध्वंसिनः स्वतो विनष्टा अपरानपि शङ्काद्युत्पादनेन सन्मार्गाद्भशयन्ति, एते च प्राकृतपुरुषाणामपि गा भवन्ति, तस्मादेतान् विज्ञाय मर्यादावस्थितो विषयसुखनिष्पिपासः कर्मविदारणसहिष्णुर्भुत्वा सर्वज्ञप्रणीतोपदेशानुसारेण सर्वकालं परिक्रामयेत्, पण्डितो गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया साधुविहरणयोग्येष्वर्धषड्विशतिदेशेषु विहरन् तिर्यङ्नरामरविहितभयादिहास्यादिचतुष्टयप्रयुक्तानुकूलप्रतिकूलान्यतरोभयोपसर्गानक्षोभ्यो नरकादिदुःखभावनयाऽवन्ध्यकर्मोदयापादितं पुनरपि मयैव सोढव्यमित्याकलय्य सम्यक् तितिक्षेत । प्राणिगणेषु दयां कुर्वन्नरक्तद्विष्टो यावज्जीवं द्रव्यादिभेदैराक्षेपण्यादिकथाविशेषैः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनविरतिविशेषैर्वा यथायोग्यं विभज्य धर्ममुत्थितेषु-चतुर्यामोत्थितेषु-पार्श्वनाथशिष्येषु स्वशिष्येषु सदोत्थितेषु वाऽनुत्थितेषु श्रावकादिषु धर्मं श्रोतुमिछत्सु पर्युपास्ति कुर्वत्सु वा यथाऽऽत्मनो बाधा न भवेत्तथा प्रवदेत् । एवं मरणकाले समुपस्थिते संसारस्य कर्मण उत्थितभारस्य वा पर्यन्तगामी मुनिरनुद्विग्नो द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वनरादिस्थण्डिलपादपोपगमनेङ्गिन्तमरणभक्तपरिज्ञान्यतरावस्थोपगतशरीरस्य जीवेन सार्धं यावद्भेदो भवति तावदाकांक्षेत् समताम् । इत्थमेव कर्मधूननं भगवानुपदिदेशेति।। ४३ ।। આ રીતે લોકમાં સારરૂપ સંયમ અને મોક્ષનું પ્રતિપાદન કર્યા પછી સર્વજ્ઞ પ્રભુએ બતાવેલ કર્મને દૂર કરવાનો ઉપાય જણાવે છે. સૂત્રાર્થ -તે ભારેકર્મીની વેદનાને જણાવીને ઉસ્થિત (જાગૃત) મુનિ માટે કર્મધૂનન જણાવે છે. ભાવાર્થ - જે અકર્મા થયેલા (કેવલજ્ઞાની) છે તેમણે બધી જ વેદનાને જાણી છે. તેવા જીનેશ્વર જેમનાં ભવોપગ્રાહી કર્મ અર્થાત્ અઘાતી કર્મ બાકી છે. તેવા મનુષ્યભવમાં રહેલા પરમાત્મા આઠ પ્રકારના કર્મને દૂર કરવાનું કહે છે.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy