________________
आचारांगसूत्र
२०१ છે. ત્યાંથી અવીને મનુષ્યભવ, સંયમ વિ. ભાવો પામીને, સર્વકર્મનો ક્ષય કરી મોક્ષમાં જાય છે. से प्रभानो भावार्थ छ. ॥३१॥
अथ सम्यग्दर्शनादीनाहतीर्थकरवचनश्रद्धालु(रो न लोकैषणां कुर्यात् ॥ ३२ ॥
तीर्थकरेति, तीर्थं कुर्वन्तीति तीर्थकराः, तेषां वचने श्रद्धालुरप्रकम्पितरुचिमान्अवाप्तसम्यक्त्व इत्यर्थः, भगवान् यद्वस्तु यथैवाभिहितवान्, तद्वस्तु तथैवास्ते नापरप्रोक्तवचसामिव तद्वचो बाधितमेवं श्रद्दधान इति यावत् । तत्र तीर्थकरा अतीता अनन्ताः कालस्यानादित्वात्, अनागता अप्यनन्ताः, तत्कालस्यानन्तत्वात्, तेषाञ्च सर्वदैव भावात्, वर्तमानतीर्थकृतः प्रज्ञापकापेक्षयाऽनव स्थिताः, तथाप्युत्कृष्टजधन्यपदिन इत्थम्, उत्कृष्टेन समयक्षेत्रसम्भविनस्सप्तत्युत्तरं शतम्, यथा पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्, प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वात्, पञ्चस्वपि भरतेषु पञ्च, एवमैरवतेष्वपि, एवं सप्तत्यधिकं शतमिति । जघन्यतश्च पञ्चसु महाविदेहेषु प्रत्येकं चत्वारस्तीर्थकरा इति विंशतिः । भरतैएरावतयोस्त्वेकान्तसुषुमादावभाव एवेति । एते सर्व एव परप्रश्नावसरे सामान्यतो वा सदेवमनुजायां सभायामर्धमागधया सर्वसत्त्वभाषानुगामिन्या भाषया जीवादिसप्तपदार्थान् सम्यग्दर्शनादीनि मोक्षमार्गाणि मिथ्यात्वादीन् बन्धहेतून् सदसदनेकान्तात्मकं तत्त्वं पृथिव्यादिप्राणिगणांश्च प्ररूपयन्ति, तत्सर्वं सत्यमेवेति विहितश्रद्धानो धीरः-तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि श्रुतचारित्रात्मकं धर्ममवगम्यापरित्यक्तसम्यक्त्वो लोकैषणामिष्टेषु शब्दादिषु प्रवृत्तिमनिष्टेषु हेयबुद्धिञ्च न कुर्यात्, लोकैषणायाः सावद्यानुष्ठानप्रवृत्तिमूलत्वात् । ये चाविदितपरमार्था इन्द्रियार्थेषु प्रलीनास्ते पुनः पुनर्जन्मादिदुःखभाजो भवन्ति, तस्मादप्रमत्तः सन् निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः कर्मरिपुन्मूलनाय यत्नं प्रकुर्यादिति भावः । नामस्थापनाद्रव्यभावभेदेन सम्यक्त्वं चतुर्धा निक्षेप्यम्, नामस्थापने प्रसिद्धे, ज्ञशरीरभव्यशरीरभिन्नं द्रव्यसम्यक्त्वञ्चापूर्वनिर्वतितं रथादि, भग्नरथादेरवयवसंस्कारः, गुणान्तराधानाय विहितो द्रव्यसंयोगः, यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय भवति तद्र्व्यं, यच्च परित्यक्तं भारादि तत्, भग्नदध्यादिभाण्डशकलानि, छिन्नमांसादिश्च यथाक्रम कृतसंस्कृतसंयुक्तप्रयुक्तोपयुक्तपरित्यक्तभिन्नछिनद्रव्यसम्यगुच्यते तत्तन्मनःसमाधानहेतुत्वात् । दर्शनज्ञानचारित्रभेदाद्भावसम्यक् त्रिविधम्, दर्शनचरणे अपि प्रत्येकमौपशमिकक्षायोपशमिकक्षायिकभेदेन त्रिविधं भवति, उपशमश्रेण्यामौपशमिकं दर्शनं, सम्यक्त्वपुद्गलोपष्टम्भ