________________
आचारांगसूत्र
१९९ કષાયની ઉગ્રતા હોય તો સાધુપણું નિષ્ફળ જાય છે. તેથી કષાયનું વમન નિશે કરવું જોઈએ. આવી સત્ય હકીકતને જાણનાર ભગવાનનો ઉપદેશ છે. કષાયના વમન વિના તીર્થકરને પણ, આવરણ રહિત, સંપૂર્ણ પદાર્થનો સાક્ષાત્કાર કરાવતું પરમજ્ઞાન = કેવલજ્ઞાન થતું નથી. અને કેવલજ્ઞાન વિના મોક્ષ સુખ પણ મળતું નથી, આ રીતે તે તીર્થંકરના ઉપદેશ વિના મોક્ષસુખ પણ भगतुं नथी.
આ રીતે તે તીર્થકરના ઉપદેશમાં રહેલા, તેમના માર્ગને અનુસરતા, અન્ય મુમુક્ષુ વડે પણ ७पायर्नु मान ४२ मे. प्रमानो मावार्थ छ. ||3|| ___ यस्तु प्रमादी स द्रव्यतः सर्वात्मप्रदेशैः क्षेत्रतः षड्दिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः कर्मोपचिनोति, अत एव तस्येह परत्र च महाभयम्, आत्महितेषु जाग्रतोऽप्रमत्तस्य तु नास्त्यैहिकादामुष्मिकाद्वा भयं, अप्रमत्तता च कषायाभावात्, तदभावाच्चाशेषमोहनीयाभावस्ततोऽशेषकर्मक्षय इत्याह
वर्द्धमानशुभाध्यवसायस्यैकाभावे बह्वभावान्मोक्षः ॥ ३१ ॥
वर्द्धमानेति, प्रवर्द्धमानशुभाध्यवसायस्येत्यर्थः, अनेन मर्यादावस्थितस्तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी श्रद्धावानप्रमत्तयतिरबद्धायुष्कः क्षपकश्रेणियोग्यो नापर इति सूचितम् । एकाभाव इति, एकस्यानन्तानुबन्धिनः क्रोधस्याभाव इत्यर्थः, अभावश्चोपशमेन क्षयेण वा भवति, अत्र तु क्षयेण विज्ञेयो मोक्ष इत्युक्तेः । बह्वभावादिति, बहूनां मानादीनां क्षयेणाभावादित्यर्थः । तथा च यः प्रवर्द्धमानशुभाध्यवसायोऽनन्तानुबन्धिनमेकं क्रोधं क्षपयति स बहूनपि मानादीनप्रत्याख्यानादीन् वा स्वभेदान् क्षपयति, मोहनीयं वैकं यः क्षपयति स शेषा अपि प्रकृती: क्षपयति । उपलक्षणेनात्रायमर्थोऽपि भाव्यः, यो बहून् स्थितिविशेषान् क्षपयति सोऽनन्तानुबन्धिनमेकं मोहनीयं वा क्षपयति, तथा ह्येकोनसप्ततिभिर्मोहनीयस्य स्थितिकोटीकोटीभिः क्षयमुपगताभिर्ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिर्नामगोत्रयोरेकोनविंशतिभिश्शेषैककोटीकोट्यापि देशोनया मोहनीयस्य क्षपणार्हो भवति नान्य इति । एवमेवोपशमश्रेण्याश्रयेण य एकोपशमकस्स बहूपशमको यो बहूपशमकस्स एकोपशमको भाव्यः । तदेवमात्मव्यतिरिक्तपुत्रधनादेः संयोगं ममत्ताप्रयुक्तं शारीरदुःखादिहेतुं तद्धेतुकर्मोपादानकारणं वा विहाय मुमुक्षवोऽनेकभवकोटिदुर्लभं रत्नत्रयमुपलभ्याप्रमत्ता मोक्षं यान्ति, तत्रावाप्तद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मोक्षप्राप्तिः, यथाशक्तिप्रतिपालितसंयमास्त्वपरे आयुषः क्षये सौधर्मादिदेवलोकमवाप्य ततः पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धासंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, ततश्च्युता अवाप्तमनुष्यादिसंयमभावा अशेषकर्मक्षये मोक्षमुपयान्तीति भावः ॥ ३१ ।।