SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावलिः अवक्तव्यकानि स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वात्, अनानुपूर्दोऽपि स्तोका एव लोकप्रदेश-संख्यामात्रत्वात् । भावद्वारे-आनुपूर्व्यादीनि सर्वाणि द्रव्याणि सादिपारिणामिकभाव एव सन्ति । अल्पबहुत्वद्वारमिदं द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च विचार्यते, तत्रानुपूर्व्या विशिष्टद्रव्यावगाहोपलक्षितात्र्यादिनभः प्रदेशसमुदायाः द्रव्याणि, समुदायारम्भकास्तु प्रदेशाः । अनानुपूर्त्यां त्वेकैकप्रदेशावगाहिद्रव्योपलक्षितास्सकलनभःप्रदेशाः प्रत्येकं द्रव्याणि, प्रदेशास्तु न सम्भवन्ति, एकैकप्रदेशद्रव्ये प्रदेशान्तरायोगात् । अवक्तव्यकेषु तु यावन्तो लोके द्विकसंयोगास्संभवन्ति तावन्ति प्रत्येकं द्रव्याणि तदारम्भकास्तु प्रदेशा इति । अवक्तव्यकद्रव्याणि द्रव्यार्थतया सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि विशेषाधिकानि, आनुपूर्वीद्रव्याणि चासंख्येयगुणानि । अप्रदेशार्थतया सर्वस्तोकान्यनानुपूर्वीद्रव्याणि, प्रदेशार्थतयाऽवक्तव्यकद्रव्याणि विशेषाधिकानि, आनुपूर्वीद्रव्याणि चासंख्येयगुणानि । उभयार्थतया तुअवक्तव्यकद्रव्याणि द्रव्यार्थतया सर्वस्तोकानि प्रदेशार्थतया च विशेषाधिकानि । अनानुपूर्वीद्रव्याणि द्रव्यार्थतयाऽप्रदेशार्थतया च विशेषाधिकानि, आनुपूर्वीद्रव्याणि द्रव्यार्थतया प्रदेशार्थतया चासंख्येयगुणानि इतीयमनौपनिधिकी क्षेत्रानुपूर्वी नैगमव्यवहारसम्मता ॥ एवमेव संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण सङ्ग्रहाभिमतक्षेत्रानुपूर्व्यपि क्षेत्रप्राधान्याद्भाव्या । औपनिधिकी क्षेत्रानुपूर्व्यपि पूर्वानुपूर्व्यादिरूपेण त्रिविधा, पूर्वानुपूर्वी चाधोलोकस्तिर्यग्लोक ऊर्ध्वलोक इति क्षेत्रानुपूळधिकारात्, एतेषाञ्च क्षेत्रविशेषत्वात् । अधोलोकस्य जघन्यपरिणामवद्र्व्ययोगाज्जघन्यतया गुणस्थानेषु प्रथमं मिथ्यादृष्टिगुणस्थानस्येवादावुपन्यासः, ततो मध्यमपरिणामवद्रव्यत्वान्मध्यमतया तिर्यग्लोकस्य तदुपरिष्टात् उत्कृष्टपरिणामिद्रव्यत्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः । पश्चानुपूर्वी चोर्ध्वलोकस्तिर्यग्लोकोऽलोक इति, अनानुपूर्व्यान्तु पदत्रयस्य पूर्वोक्तक्रमेण षड्भङ्गा भवन्ति तत्र प्रथमचरमपरित्यागेन माध्यमिकाश्चत्वारो भङ्गा अनानुपूर्व्यः । एवमधआदिलोकेष्वपि प्रत्येकं रत्नप्रभादिपृथिवीमादाय पूर्वानुपूर्व्यादय ऊहनीयाः । कालानुपूर्व्यनौपनिधिकी नैगमव्यवहारसम्मता अर्थप्ररूपणादिविषये द्रव्यानुपूर्वीवदेव, समयत्रयादि-रूपकालपर्यायविशिष्टद्रव्याणि आनुपूर्व्यः, समयत्र्यादीनामेव मुख्यमिहानुपूर्वीत्वं तद्विशिष्टद्रव्यस्य त्वभेदोपचारात् पर्यायपर्यायिणोः कथञ्चिदभेदात् । अत्रापि द्रव्यस्यानन्तसमयस्थिति स्ति स्वाभाव्यात्, तेन यावदसंख्येयसमयविशिष्टद्रव्यमानुपूर्वी भवति । एकसमयस्थितिकं परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी द्विसमयस्थितिकं तादृशं द्रव्यमवक्तव्यकम् । द्रव्यद्वारे आनुपूर्वीद्रव्याण्य
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy