SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार संख्येयान्येव नानन्तानि, समयक्रमादिरूपस्थितेरेकैकरूपत्वात् द्रव्यास्यात्र गौणत्वाच्च त्रिसमयस्थितिकानामनन्तानामपि द्रव्याणामेकानुपूर्वीद्रव्यत्वात् एवं चतुःसमयलक्षणस्थित्यादीनामपि भाव्यं यावदसंख्येसमयलक्षणस्थितिम् । एवमनानुपूर्व्यवक्तव्यकद्रव्याण्यपि प्रत्येकमसंख्येयानि वाच्यानि । क्षेत्रद्वारे एकद्रव्यापेक्षया लोकस्य संख्येयभागेऽसंख्येयभागे संख्येषु भागेष्वसंख्येयेषु भागेषु देशोने वा लोकेऽवगाहते । अचित्तमहास्कन्धस्तु सर्वलोकव्याप्यपि तद्व्यापितयैकमेकसमयमवतिष्ठते तत ऊर्ध्वमुपसंहारात् । एकसमयस्थितिकञ्चानुपूर्वीद्रव्यं न सम्भवति, तस्य त्र्यादिसमयस्थितिकत्वात्, तस्मात्त्र्यादिसमयस्थितिकमन्यद्द्रव्यं नियमादेकेनापि प्रदेशेन ऊन एव लोकेऽवगाहते । अनानुपूर्वीद्रव्यन्तु क्षेत्रानुपूर्व्या कालानुपूर्व्याञ्च एकं द्रव्यं लोकस्यासंख्येयभाग एव वर्त्तते यद्धि कालत एकसमयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपुर्वीत्वेन विवक्ष्यते तच्च लोकासंख्येयभाग एव भवति, नानाद्रव्याणि तु सर्वत्र लोके, एकसमयस्थितिकद्रव्याणां सर्वत्र सत्त्वात् । अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासंख्येयभाग एव स्यात्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासंख्येयभाग एवावगाहते न परतः । स्पर्शनाद्वारे एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं जघन्येन त्रीणि समयानि यावद्वर्त्तते जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वात्, उत्कर्षेणासंख्येयं कालं वर्त्तते, तत्कालात् परत एकेन परिणामेन द्रव्यस्यावस्थानाभावात् । नानाद्रव्याणि तु लोकस्य प्रतिप्रदेशं सर्वदा तैरशून्यत्वात्सर्वकालं भवन्ति । अनानुपूर्वीद्रव्याणि चैकद्रव्यापेक्षया जघन्योत्कृष्टचिन्तामुत्सृज्यैकं समयं नानाद्रव्याणि प्रतीत्य सर्वदा भवन्ति । एकद्रव्यापेक्षया जघन्योत्कृष्टचिन्तामुत्सृज्यावक्तव्यकद्रव्याणि द्वौ समयौ नानाद्रव्यापेक्षया सर्वकालं भवन्ति, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्योत्कृष्टचिन्ता सम्भवति । अन्तरद्वारे-एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यस्य जघन्येनान्तरमेकः समयः, त्र्यादिसमयस्थितिकस्य द्रव्यस्य तत्परिणाम - परित्यागेन परिणामान्तरेण समयमेकं स्थित्वा पुनस्तत्परिणामप्राप्तौ त्र्यादिसमयस्थितिकत्वेन जघन्यतया समयस्यैवान्तरप्राप्तैः । उत्कर्षेण तु द्वौ समयौ, मध्ये द्विसमयं स्थित्वा पुनस्तस्यैव परिणामस्य प्राप्तेः मध्ये त्र्यादिसमयं यावत्सत्त्वे तु तत्राप्यानुपूर्वीत्वमनु- भवेदित्यन्तरमेव न भवेत् । नानाद्रव्याणान्तु नास्त्यन्तरम्, लोकस्य कदापि तच्छून्यत्वाभावात् । अनानुपूर्वीद्रव्यस्य चान्तरं द्वौ समयावेकद्रव्यापेक्षया, एकसमयस्थितिकं हि द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं ९५
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy