SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार स्कन्धसंधातश्च क्षेत्रतोऽनानुपूर्वी, प्रदेशद्वयावगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकम् । बहुवचननिर्देशभङ्गसमुत्कीर्तनतादिविचारः पूर्ववत् । अनुगमे च सत्पदप्ररूपणाद्वारमपि पूर्ववत्, द्रव्यप्रमाणद्वारे-आनुपूर्वीद्रव्याण्यसंख्यातानि, व्यादिप्रदेशावगाढद्रव्यस्यैव क्षेत्रत आनुपूर्वीत्वेनासंख्यातप्रदेशात्मके लोके त्र्यादिप्रदेशविभागानामसंख्यातत्वात्, तुल्यप्रदेशावगाढानां बहूनामपि क्षेत्रावगाहापेक्षयैकत्वात् । एवमनानुपूर्वीद्रव्याण्यप्यसंख्येयानि, लोके प्रदेशानामसंख्यातत्वात्, अवक्तव्यकद्रव्याण्यपि तथा, द्विप्रदेशात्मक-विभागानामप्यसंख्यातत्वात् । क्षेत्रद्वारे स्कन्धद्रव्याणां विचित्रत्वादेकद्रव्यापेक्षया कश्चित्स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति कश्चिदसंख्येयमन्यः संख्येयानपरोऽसंख्येयान् कश्चित्तु देशोनलोकव्यापी च, क्षेत्रत आनुपूक्स्सकललोकव्यापित्वेऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशत्वप्रसङ्गः, न चेष्टापत्तिः, लोकस्य सदाऽऽनुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैरशून्यत्वस्य शास्त्रानुमतत्वादतो देशोनेति । द्रव्यानुपूर्व्या द्रव्याणामेवानुपूर्व्यादिभाक्त्वेन द्रव्याणाञ्च परस्परं भिन्नानामपि एकत्रापि क्षेत्रेऽवस्थानसम्भवान्न सर्वलोकव्यापित्वं तस्य विरुध्यते, नानाद्रव्यापेक्षया सर्वलोकव्यापित्वमानु-पूर्व्यादिद्रव्याणां, व्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वीणां नानात्वम् । एकद्रव्यापेक्षयाऽनानुपूर्वीद्रव्यं लोकस्यासंख्येयभागवत्येव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वात् । नानाद्रव्यापेक्षया समस्तलोकव्यापित्वम्, एवमवक्तव्यकद्रव्यमपि । स्पर्शनाद्वारमप्येवमेव, कालद्वारे-त्र्यादिप्रदेशावगाढद्रव्यरूपाऽऽनुपूर्वी एकद्रव्यापेक्षया जघन्येनैकस्समय उत्कर्षेणासंख्येयः कालः तिष्ठति, नानाद्रव्यापेक्षया तु सर्वकालमेव भवति । त्र्यादिप्रदेशावगाढद्रव्यभेदानां सर्वदा सद्भावात्, एवमनानुपूर्व्यवक्तव्यकद्रव्येष्वपि भाव्यम् । अन्तरद्वारे-एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं किमपि यदा समयमेकं विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते । तदेव यदाऽन्येषु क्षेत्रेष्वसंख्येयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्त वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसंख्येयोऽन्तरकालः प्राप्यते । न च द्रव्यानुपूर्व्यामिव कुतो नानन्तकालः प्राप्यत इति वाच्यम्, तत्र द्रव्यविशेषणां विवक्षितद्रव्यातिरिक्तानामनन्तत्वात् तैश्च सह क्रमतस्संयोगादनन्तकालप्राप्तेः, अत्र तु विवक्षितक्षेत्रावगाहक्षेत्रादन्यक्षेत्रस्यासंख्येयत्वात् । नानाद्रव्यापेक्षया नास्त्यन्तरमेवमेवानानुपूर्व्यवक्तव्यकद्रव्याणां भाव्यम् । भागद्वारे-आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयै गैरधिकानि शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्ते,
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy