________________
३-२४]
वन्यालोकः
कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रादातिशयः प्रवर्तते ।
ननु येषां रसानां परम्पराविरोधः यथा - वीरशृङ्गारयोः शृङ्गारहास्ययोः रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतयोर्वा तत्र भवत्वङ्गाङ्गिभावः । तेषां तु स कथं भवेद्येषां परस्परं बाध्यबाधकभावः । यथा – शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयो वर्वा इत्याशङ्कयेदमुच्यते -
अविरोधी विरोधी वा रसोगिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोपिता ॥२४॥
अङ्गिनि रमान्तरे शृङ्गारादौ प्रबन्धव्यङ्गये सति अविरोधी विरोधी वा रसः परिपोषं नं नेतव्यः । तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्त. माधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः । उत्कर्षसाम्येऽपि तयोर्विरोधासम्भवात् । यथा
एकत्तो रुअइ पिआ अण्णत्तो समरतूरणिग्घोसो ।
हेण रणरसेण अ भडस्स दोलाइअं हिअअं ॥ [ एकतो रोदिति प्रिया अन्यतः समरतूयनिर्घोषः ।
म्नेहेन रणरसेन च भटम्य दोलायितं हृदयम् ॥ इति च्छाया! यथावा--
कण्ठाच्छित्वाक्षमालावल्यमिव करे हारमावर्तयन्ता कृत्वा पर्यवन्धं विषधरपतिना मेखलाया गुणेन । मिथ्यामन्त्राभिनापस्फुरदधरपुटव्यञ्जिताव्यक्तहासा
देवी सन्ध्याम्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् ।। इत्यत्र ।
अङ्गिरसविरुद्धानां न्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा