________________
७२
ध्वन्यालोकः
[३-२५
क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः । अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसत्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोषरहितस्य रसस्य कथं रसत्वमिति चेत्-उक्तमत्राङ्गिरमापेक्षयेति । अङ्गिनो हि रसस्य यावान् परिपोषस्तावांस्तस्य न कर्तव्यः; स्वतस्तु सम्भवी परिपोषः केन वायते । एतच्चापक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य बहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशे प्रबन्धेषु स्यादविरोध : । एतच्च सर्व येषां रसो रसान्तरस्य व्यभिचारीभवति इति दर्शनं तन्मतेनोच्यते । मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामनत्वं निर्विरोधमेव ।
एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानी विरोधिविषयमेव तं प्रतिपादयितुमिदमुच्यते ।
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥२५॥
ऐकाधिकरण्यविरोधी नैरन्तयविरोधी चेति द्विविधो विरोधी। तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रमेनौचित्यापेक्षया विरुद्धकाश्रयो यो विरोधी, यथा वीरण भयानकः. स विभिन्नाश्रयः कार्यः। तस्य वीरस्य य आश्रयः कथानायकम्तद्विपक्षविषये सन्निवेशयितव्यः । तथा सति च तस्य, विरोधिनोऽपि यः परिपोषः स निर्दोषः । विपक्षविषये हि भयातिशयवर्णने नायकम्य नयपराक्रमादिसम्पत्सुतरामुद्योतिता भवति । एतच्च मदीयेऽर्जुनचरितेऽर्जुनम्य पातालावतरणप्रसङ्गे वैशयेन प्रदर्शितम् ।