________________
३-२०]
ध्वन्यालोकः
कारणात्कार्यविशेषोत्पत्तिः । विरुद्धफलोत्पादन हेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम । एवंविधविरुद्धपदार्थविषयः कथम भिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवंविधवाच्यविषय: या वाती सात्रापि भविष्यति । एवं विध्यनुवादनयाश्रयेणात्र लोके परिहृतस्तावद्विरोधः ।
किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णनं तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां वैक्लव्यं नादधाति प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्विद्दोषः । तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी ग्मविरोधीति वक्तुं न्याय्यः न त्वङ्गभूतस्य कस्यचित् ।
६९
अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते । यतः प्रकृतिमधुराः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणै र्विलासैरधिकतरं शोकावेशमुपजनयन्ति । यथा
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाम्यूरुजघनस्पर्शी नीवीविस्त्रंसनः करः ॥
इत्यादौ ।
तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निराद्रीपराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणान्त्येव निर्विरोधत्वम् । तस्माद्यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च
क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव पतद्वाप्पाम्बुधौताननाः । भीता भर्तृकरावलम्बितकर। स्त्वद्वैरिनार्योऽधुना दावाग्निं परितो भ्रमन्ति पुनरप्यद्विवाहा इव ।।