________________
३-१६]
म्वन्यालोकः इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिप्रकारः प्रकाशितः ।
एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा -
तालैः शिञ्जद्वलयसुभगैः कान्तया नर्तितो मे ।
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्धः ॥ तिन्तस्य यथा -
अवसर रोउं चिअ णिम्मिआइँ मा पुंस मे हअच्छीइं । दसणमेत्तुम्भत्तेहिं जेहिं हिअअं तुह ण णाअम् ।। [ अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे । दर्शनमात्रोन्मताभ्यां याम्यां तव हृदयं न ज्ञातम् ॥
[इति च्छाया] यथा वा -
मा पंथं रुंध महं अवेहि बालअ अहो सि अहिरीओ। अम्हे अणिरिक्काओ सुण्णघरं रक्खिदव्वं णो॥ [मा पन्थानं रुधः मम अपेहि बालक अहो असि अह्रोकः।
वयं परतंत्राः शून्यगृहं रक्षितव्यं नः ।। इति च्छाया ] सम्बन्धस्य यथा -
अण्णत्थ वच्च बालअ ण्हाअंति कीस पुलोएसि । एअं भो जाआभीरुआण तूहं चिअ ण होइ । [ अन्यत्र बन बालक स्नान्ती किं मां पश्यसि ।
एतद् भो जायाभीरुकाणां तीर्थमेव न भवति ॥ इति च्छाया ] कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव । अवज्ञातिशये कः । समासानां च वृत्त्यौचित्येन विनियोजने ।