________________
ध्वन्यालोकः श्रया गुणाः ।
ननु यदि सङ्घटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्ताम् । उच्यते – प्रतिपादितमेवैषामालम्बनम् ।
तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ।। इति ।
अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषामनुप्रासादितुल्यत्वम् । यस्मादनुप्रासादयोऽनपक्षितार्थशब्दधर्मा एव प्रतिपादिताः। गुणास्तु व्यङ्ग्यविशेषावभासिनो वाच्यप्रतिपादनसमर्थाः शब्दधर्मा एव । शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनाम् ।।
__ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव । न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणानामवाचकत्वादाश्रया भवन्ति ।
नैवम्; वर्णपदव्यङ्गयत्वस्य रसादीनां प्रतिपादितत्वात् ।
अभ्युपगते वा वाक्यव्यङ्गयत्वे रसादीनां नियता न काचित्सङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एव गुणानां व्यङ्गयविशेषानुगता आश्रयाः । ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम: ओजसः पुनः कथमनियतसङ्घटनाशब्दाश्रयत्वम् । न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतिपद्यते ।
उच्यते –यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न ब्रूमः । ओजसः कथमसमासा सङ्घटना नाश्रयः । यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्प्रतिपादितम् । तच्चौजो यद्यसमासायामपि सङ्घटनायां स्यात्तत्को दोषो भवेत् । नत्राचारुत्वं सहृदयहृदयसंवेद्यमस्ति । तस्मादनियतसङ्घटनाशब्दाश्रयत्वे गुणानां न काचित्क्षतिः । तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद्व्यभिचारः ।