________________
ध्वन्यालोकः
स्वरूपमेव तावन्निरूप्यते--
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्कटनोदिता ॥ ५॥ कैश्चित् । नां केवलमनूछेदमुच्यते--
गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन्व्यनक्ति सा। रसान्
सा मङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यं गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयी गतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानाधेयभूतान्याश्रित्य तिष्ठन्ती सङ्घटना रसादीन् व्यनक्तीत्ययमर्थः । यदा तु नानात्वपक्षे गुणाश्रयसङ्घटनापक्षः तदा गुणानाश्रित्य तिष्ठन्ती गुणपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः । किं पुनरेवं विकल्पनम्य प्रयोजनमित्यभिधीयते ।
यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुणानामानियतविषयत्वप्रसङ्गः । गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव । रौद्राद्भुतादिविषयमोजः । माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो व्यवस्थितः, सङ्घटनायास्तु म विघटते । तथा हि शृङ्गारेऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति ।
___ तत्र शृङ्गारे दीर्घसमासा यथा – ' मन्दारकुसुमरेणुपिञ्जरितालका' इति । यथा वा -
अनवरतनयनजललवनिपतनपरिमुषितपत्रलेखं ते । करतलनिषण्णमबले वदनमिदं कं न तापयति । इत्यादौ ।
तथा रौद्रादिप्वप्यसमासा दृश्यते, यथा – “यो यः शस्त्रं विभर्ति स्वभुजगुरुमदः ' इत्यादौ । तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटना