________________
३-४]
ध्वन्यालोकः
त एव तु निवेश्यन्ते बीभत्साद रसे यदा । तदा तं दीपयन्त्येव तेन वर्णा : रसयुतः ॥ ४ ॥
श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति ।
पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथाउत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥
अत्र हि “ते” इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । पदावयवेन द्योतनं यथा
डायोगान्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रविभागः ||
४९
इत्यत्र " त्रिभाग " शब्दः ।
वाक्यरूपश्ञ्चलक्ष्यक्रमव्यङ्गयो
ध्वनिः
शुद्धोऽलङ्कारसङ्कीर्णश्वेति
द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये - ' कृतककुपितै:इत्यादि श्लोकः । एतद्धि वाक्यं परस्परानुरागं परिपोष प्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति ।
अलङ्कारान्तरसङ्कीर्णो यथा - ' स्मरनवनदीपूरेणोढाः' इत्यादि श्लोकः । अत्र हि रूपकेण यथोक्तव्यङ्गचव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते ।
अलक्ष्यक्रमव्यङ्गयः सङ्घटनायां भासते ध्वनिरित्युक्तम्, तत्र सङ्घटना