SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ५२ ध्वन्यालोकः तस्मादन्ये गुणा अन्या च सङ्घटना । न च सङ्घटनामाश्रिता गुणा इत्येकं दर्शनम् । अथवा सङ्घटनारूपा एव गुणाः ।। यत्तूक्तम् -- .. सङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति, लक्ष्ये व्यभिचारदर्शनात् " इति । तत्राप्येतदुच्यतेः यत्र लथ्ये परिकल्पितविषयव्यभिचारम्तद्विरूपमेवास्तु । कयमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् ? कविशक्तितिरोहितत्वात् । द्विविधो हि दोषः कवेरव्युत्पत्तिकृतोऽशक्तिकृतश्च । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः मः अटिति प्रतीयते । परिकर श्लोकश्चात्र – " अव्युत्पत्तिकृतो दोषः शक्त्या संत्रियते कवेः । यस्त्वशक्तिकृतस्तस्य झटित्येवावभासते ।।" तथा हि-महाकवीनामव्युत्पत्तिकृतमप्युत्तमदेवताविषयप्रतिषिद्धसंभोगशृङ्गारनिवन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते यथा कुमारसम्भवे देवीमम्भोगवर्णनम् । एवमादौ च विषये यथोचित्यात्यागस्तथा दार्शितमेवाग्रे । शक्तितिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवमीयते । यथा हि शक्तिरहितेन कविना एवंविधे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतिभामते । ___ नवम्मिन् पक्षे । यो यः शस्त्रं विभर्ति' इत्यादौ किमचारुत्वम् ? अप्रतीयमानमेवारोपयामः । तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते । तन्नियमे हेतुरीचित्यं वक्तृवाच्ययोः ॥ ६॥ तत्र वक्ता कविः कविनित्र द्रो वा , कविनिवद्धश्चापि रसभावरहितो ग्मभावममन्वितो वा, रमोऽपि कथानायकाश्रयम्तद्विपक्षाश्रयो वा. कथानायकश्च
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy