________________
३-१]
ध्वन्यालोकः
प्रकाशता यथा हरिविजये
चूअंकुरावअंसं छणपसरमहग्घमणहरसुरामोअं। अपणामि पि गहिअं कुमुमसरेण महुमासलच्छिए मुहं ।। [चतारावतंसं क्षणप्रसरमहाधमनोहरसुरामोदम् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् छाया ]
अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदर्थाभिधायिपदमर्यशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति ।
अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् ‘सजेहि सुरहिमासो' इत्यादि । अत्र सजयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकतापादनावस्थानं वसन्तसमयस्य सूचयति ।
स्वतःसंभविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथावाणिअअ हत्यिदन्ता कतो अम्हाण वग्घकित्तीओ । जाव लुलिआलअमुही घरम्मि परिसक्कए सुण्हा ।। [ वाणिनक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वष्कते स्नुषा ।। छाया ]
अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसंभोगक्षामतां प्रकाशयति ।
तस्यैव वाक्यप्रकाशता यथा - सिहिपिच्छकण्णऊरा बहुआ वाहस्स गबिरी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीणम् ।। [शिखिपिच्छकर्णपूरा भार्या व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ।। छाया