________________
वन्यालोकः
या निशा सर्वभूतानां तम्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि मा निशा पश्यतो मुनेः ।।
अनेन हि वाक्येन न निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः । किं तर्हि ? तत्त्वज्ञानावहितत्वमतत्त्वपराङमुग्वत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्य व्यञ्जकत्वम् । तम्यनाथ न्तरमंक्रमितवाच्यस्य वाक्यप्रकाशता यथा--
विसमा चिन काण वि काण वि बोलेड अमिअणिम्माओ । काण वि विसामिअमओ काण वि अविमामओ कालो ।। [विषमय इव केषामपि केषामपि प्रयात्यमृतनिर्माणः । आषामपि विवामृतमयः केवामप्यविषामृतः कालः ।। इति च्छाया ]
अत्र हि वाक्ये विवामृतशब्दाभ्यां दुःखपुखरूपसंक्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरमंक्रमितवाच्यभ्य व्यजकत्वम् ।
विवक्षिताभिधेयस्यानुरणनरूपन्यङ्गयस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा
प्रातुं धनरर्थेननम्य वा देवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूरोऽथवा किं न जडः कृतोऽहम् ।।
अत्र हि जड इति पदं निर्विष्णेन वक्त्रात्मसमानाधिकरणतया प्रयुक्त. मनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते ।
तस्यैव वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु
' वृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः । । एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शशक्त्या स्फुटमेव प्रकाशयति ।
अम्यैव कविप्रौढोक्तिमात्रनिप्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पद