________________
२-२८]
· ध्वन्यालोकः
त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ शब्दार्थव्यवहारे च प्रसिद्धिरेव प्रमाणम् । श्लेषध्वनिर्यथा - रम्या इति प्राप्तवतीः पताकाः राग विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्बलीकाः समं वधूभिर्वलभीर्युवानः ॥
अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थप्रतीतेरनन्तरं वध्व इव वलम्य इति श्लेषप्रतीतिरशब्दाप्यर्थसामर्थ्यान्मुख्यत्वेन वर्तते । यथासंख्यध्वनियथा -
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च सहकारः । अङ्कुरितः पल्लवितः कोरकितः पुष्पितश्च हृदि मदनः ॥
अत्र हि यथोद्देशमनूद्देशे यच्चारुत्वमनुरणनरूपं मदनविशेषणभूताङ्करितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षणाद्वाच्यादति रिच्यमानमालक्ष्यते । एवमन्येऽप्यलङ्कारा यथायोगं योजनीयाः ।
एवमलङ्कारध्वनिमार्ग व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुमिदमुच्यते--
शरीरीकरणं येषां वाच्यत्वे न ( वाच्यत्वेन ) व्यवस्थितम् । तेऽलङ्काराः परां छायां यान्ति वन्यङ्गतां गताः ॥ २८ ॥
ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्गयत्वेन च । तत्रेह प्रकरणान्यङ्गयत्वेनेत्यवगन्तव्यम् । व्यङ्गयत्वेऽप्यलङ्काराणां प्राधान्य