________________
२-२१]
ध्वन्यालोकः अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते । स चाक्षिप्तोऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहितस्वरूपस्तत्र न शब्दशक्त्युद्भवानुरणनरूपव्यङ्गयध्वनिव्यवहारः । तत्र वक्रोक्त्यादिवाच्यालङ्कारव्यवहार एव । यथा-- दृष्टया केशव गोपरागहृतया किञ्चिन्न दृष्टं मया
तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषु खिन्नगनसां सर्वाबलानां गति
गर्गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिवश्चिरम् ॥
एवजातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः । यत्र तु सामर्थ्याक्षिप्तं सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेविषयः । यथा---
'अत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालः'। यथा च--
उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥
यथा वा---
दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः । दीप्तांशोीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ।। एषूदाहरणषु शब्दशक्त्या प्रकाशमाने सत्यप्राकरणिकेऽर्थान्तरे वाक्य