________________
ध्वन्यालोकः
[२-२१ सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्गयमेवालङ्कारान्तरं प्रकाशते स ध्वनविषयः । शब्दशक्त्या साक्षादलङ्कारान्तरप्रतिभा यथा
तस्या विनापि हारेण निसर्गादेव हारिणौ । जनयामासतुः कम्य विस्मयं न पयोधरौ ।।
अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद्विरोधालङ्कारश्च प्रतिभासत इति विरोधच्छायानुग्राहिणः श्लेषस्यायं विषयः, न त्वनुम्वानोफ्मव्यङ्गयस्य ध्वनेः । अलक्ष्यक्रमव्यङ्गयम्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यजितस्य विषय एव । यथा ममैव
श्लाघ्याशेषतर्नु सुदर्शनकरः सर्वाङ्गलीलाजित
त्रैलोक्यां चरणारविन्दललितनाक्रान्तलोको हरिः । बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दध
स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ।।
अत्र वाच्यतयैव व्यतिरेकच्छायानुप्राही श्लेषः प्रतीयते । यथा च भ्रमिमरतिमलसहृदयतां प्रलयं मूच्छां तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।।
यथा वा--
चढिअमाणसकंचणपंकअणिम्महिअपरिमला जस्स । अक्खुडिअदाणपसरा बाहुप्फलिह च्चिअ गइंदा ॥ (खण्डितमानसकाञ्चनपङ्कननिर्माथतपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥ (छाया)